SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ यस्मिन्नष्टापदभू-दष्टापदमुख्यदोषलक्षहरः । अष्टापदाभ ऋषभः, स जयत्यष्टापदगिरीशः ।।१।। ऋषभसुता नवनवतिर्बाहुबलिप्रभृतयः प्रवरयतयः । यस्मिनभजत्रमृतं, स जयत्यष्टापदगिरीशः ।।२।। अभजनिवृतियोग, वियोगभीरव इव प्रभोः समकम् । यर्षिदशसहस्राः, स जयत्यष्टापदगिरीशः ।।३।। रत्नत्रयमिव मूर्त, स्तूपत्रितयं चितित्रयस्थाने । यत्रास्थापयदिन्द्रः, स जयत्यष्टापदगिरीशः ।।४।। भरतोऽरचयञ्चैत्यं, योजनदीर्घ तदर्धपृथुमानम् । क्रोशत्रयोअमुचैः, स जयत्यष्टापदगिरीशः ।।५।। स्वस्वाकृतिमितिवर्णा-इवर्णितान् वर्तमानजिनराजान् । भरतो वर्णितवानिह, स जयत्यष्टापदगिरीशः ।।६।। भरतेन मोहसिंह, हन्तुमिवाष्टापदः कृतोऽष्टपदः । शुशुभेऽष्टयोजनो यः, स जयत्यष्टापदगिरीशः ।।७।। यस्मिन्ननेककोट्यो, महर्षयो भरतचक्रवर्त्याद्याः । सिद्धिं साधितवन्तः, स जयत्यष्टापदगिरीशः ।।८।। क्षालयितुमिव स्वैनो, जैनो यो गङ्गयाश्रितः परितः । सन्ततमुल्लोलकरः, स जयत्यष्टापदगिरीशः ।।९।। ४७ उपदेश सप्तति
SR No.005876
Book TitleUpdesh Saptati
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year2004
Total Pages640
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy