SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ પ્રામાણ્ય અને અપ્રામાણ્યની ઉત્પત્તિ અને જ્ઞપ્તિની પદ્ધતિ જણાવે છે. तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च ॥१-२१॥ પ્રામાણ્ય અને અપ્રમાય તે બંને ઉત્પત્તિમાં પરથી છે અને જ્ઞપ્તિમાં સ્વથી અને પરથી છે. ज्ञानगतप्रामाण्याप्रामाण्यविषये मिथो विवदन्ते दर्शनकाराः, तथाहिउत्पत्तौ ज्ञप्तौ च ज्ञानानां प्रामाण्य स्वतः अप्रामाण्यं परत इति मीमांसका वेदान्तिनश्च । उभयत्रापि प्रामाण्याप्रामाण्यं परतः इति नैयायिकाः । अप्रामाण्यं स्वतः प्रामाण्यं परत इति सौगता: । तत्त्वविदस्तु तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च इति वदन्ति । ' तदुभयं-प्रमाण्यमप्रामाण्यं च उत्पत्तौ-स्वोत्पत्तौ परत.एव-ज्ञानकारणगत-गुणदोषाभ्यामेव उत्पद्यते इति शेषः, ज्ञप्तौ तु निश्चये तु स्वतः परतश्च, अभ्यास-दशाऽऽपन्ने करतलादिज्ञाने स्वतः, अनभ्यासदशाऽऽपने सादिज्ञाने . परतः, संवाद-बाधकाभ्यां निश्चीयते । .. . अयं भावः- ज्ञानसाधनम्- इन्द्रियादि यदि नैर्मल्यादिगुणविशिष्टं तर्हि तत् प्रमाणभूतं ज्ञानं जनयति, यदि तदेव काचकामलादिदोषविशिष्टं तर्हि अप्रमाणभूतं ज्ञानमुत्पादयति, तत्र ज्ञानोत्पत्तिं प्रतीन्द्रियाणां कारणत्वं, ज्ञानगतप्रामाण्याप्रामाण्योत्पादकत्वे तु गुणदोषयोः कारणत्वमिति विवेकः, ज्ञानगतप्रमाण्यस्य निश्चयस्तु अभ्यासदृशाऽऽपन्ने करतलादिज्ञाने स्वत एव भवति, अनभ्यासदशाऽऽपन्ने-सत्यसदिज्ञाने संवादकज्ञानाद् भवति । अप्रमाणस्य निश्चयस्तु अभ्यासदशाऽऽपन्ने मृगतृष्णिकादौ स्वत एव भवति, अनभ्यासदशापन्ने 'शुक्ताविदं रजतम्' इति ज्ञाने तु बाधकज्ञानाद् भवतीति। ___यादृशोऽर्थः पूर्वज्ञाने प्रथापथमवतीर्णः तादृश एव येन ज्ञानेन व्यवस्थाप्यते, तत् संवादकमित्युच्यते । मन्दसामग्रीजन्यं संवाद्यं, उदग्रसामग्रीसमुत्पाद्यं संवादकमिति ॥ २१॥ જ્ઞાનમાં રહેલી પ્રમાણતા અને અપ્રમાણતાના વિષયમાં પરસ્પર દર્શનકારો વિવાદ કરે છે. તે આ પ્રમાણે उ८
SR No.005872
Book TitlePramannaytattvalok
Original Sutra AuthorN/A
AuthorMahayashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2003
Total Pages348
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy