________________
જ્ઞાનથી ભિન્ન બીજો પદાર્થ તે પર કહેવાય છે.
ज्ञानाद् भिन्नः पदार्थः परः "स्वपरव्यवसायि ज्ञानं प्रमाणम्''(१-२) इत्यत्र परशब्दवाच्य इत्यर्थः । अनेन 'ज्ञानमेव तत्त्वम्' ज्ञानातिरिक्तत्वेन प्रतिभासमाना घटपटादयो बाह्यपदार्था ज्ञानस्यैवाकारविशेषा इति वदन्तो योगाचारापरपर्यायज्ञानाद्वैतवादिनो बौद्धाः निरस्ताः । तथाहि-यदि बाह्यपदार्थो नाङ्गीक्रियते तर्हि अयं घट: अयं पटः, इति घटपटाद्याकारविशिष्टं ज्ञानं किं निमित्तमुत्पद्येत? अनादिवासनावैचित्र्यात् तादृशज्ञानमुत्पद्यते इति चेत्, ननु सा वासना ज्ञानादभिन्ना भिन्ना वाऽङ्गीक्रियते, यद्यभिन्ना तर्हि ज्ञानमेव तत्त्वं स्यात् न तु वासना नाम किञ्चित् तथा च कथं वासनावशाद् ज्ञाने घटाद्याकारसिद्धिः? भिन्नत्वे तु ज्ञानाद्वैतहानिःस्यात्, ज्ञानातिरिक्तत्वेन वासनाया अप्यर्थत्वात्, तस्मान्न बाह्यार्थमन्तरा घटाद्याकारविशिष्टं ज्ञानमुपपद्यते इति बाह्यार्थोऽङ्गीकर्तव्य एवेति संक्षेपः । एते च बौद्धा वैभाषिक सौत्रान्तिकयोगाचार-माध्यमिकभेदाच्चतुर्विधाः ।। . तत्र वैभाषिको बाह्य घटपटादि, आन्तरं ज्ञानादि, च वस्तुतत्त्वं सत्यत्वे- . नाङ्गीकरोति । सौत्रान्तिको यद्यपि बाह्यमान्तरं चेति द्विविधमपि तत्त्वं स्वीकरोति, तथापि बाह्यपदार्थानां प्रत्यक्षं नैव मन्यते, घटपटादिनानाकारं ज्ञानं वर्तते ततोऽनुमीयते बाह्यपदार्थाः सन्तीति अनुमानेन बाह्यपदार्थावगतिं 'ब्रूते । योगाचारस्तु बाह्यपदार्थानां सर्वथैवाऽपलापं करोति, केवलमान्तरेव ज्ञानाख्यं तत्त्वं स्वीकरोति, ज्ञानमेव ग्राह्यग्राहकरूपेण प्रतिभासते, न वस्तुतो बाह्यपदार्थाः सन्तीति सिद्धान्तयति। माध्यमिकस्तु सर्वशून्यमेव वदति, तथाहि- मानाधीना मेयसिद्धिरिति नियमेन पदार्थानां सिद्धिर्यदि प्रमाणाधीना, तर्हि प्रमाणस्य सिद्धिः केन? अन्येन प्रमाणेन चेत्, तस्यापि कथम्? अन्येन चेत्, तर्हि तस्याप्यन्येन, इत्यादिरूपेणानवस्था, यदि तेनैव प्रमाणेन तर्हि आत्माश्रयः, अतः प्रमाणं न सिध्यति, प्रमाणसिद्ध्यभावात् प्रमेयमपि न सिध्यतीति सिद्धा सर्वशून्यता ।
तथा च संग्रहश्लोकः श्रीहरिभद्रसूरीयषट्दर्शनसमुच्चयस्य श्रीगुणरत्नसूरिकृतायां टीकायाम्
(૩૧