________________
शुक्तिकायामरजताकारायां रजताकारेण यज्ज्ञानं स विपर्ययः विपरीतख्यातिरित्यर्थः । यही स्व३५४ नथी मेवी छीपलीमा यहीस्व३५. शान કરવું તે વિપર્યય છે. તેને વિપરીત-ખ્યાતિ કહેવાય છે.
ख्यातयो बहुविधा:- यथा-आत्मख्यातिः, असत्ख्यातिः, अख्यातिः, अनिर्वचनख्यातिः, सत्-ख्यातिः, अन्यथाख्यातिश्चेति । तत्र-आत्मख्याति:आत्मनः ज्ञानस्यैव ख्याति:- विषयरूपतया भानम, अयमर्थः- "शक्ताविदं रजतम्" इत्यत्र ज्ञानस्यैव रजतरूपतया भानं भवति न च तत्र कश्चिद् बाह्योऽर्थो विद्यते 'अयं घटः इत्यादिषु सर्वत्र ज्ञानस्यैव विषयरूपतया प्रतिभासमानत्वात्, इति योगाचाराऽपरपर्यायविज्ञानवादिनो बौद्धाः ।
__ असत्ख्याति:- असतो रजतादेः ख्यातिः- प्रतीतिः तथाहि- 'शक्ताविदं रजतम्' इति प्रतिभासमानं वस्तु न ज्ञानरूपं भवितुमर्हति अहं रजतम्' इति अन्तर्मुखाकारतयाऽप्रतिभासमानत्वात् नाप्यर्थरूपं, रजतसाध्याया अर्थक्रिया अभावात् तस्मादसदेव रजतं तत्र चकास्तीत्यसत्ख्यातिरिति माध्यमिकाऽपरपर्यायशून्यवादिनो बौद्धाः । ___ अख्यातिरप्रतीतिः-विवेकाख्यातिरित्यर्थः । शुक्ताविदं रजतमित्यत्र प्रत्यक्षस्मरणरूपं प्रत्ययद्वयमुत्पद्यते, तत्रेदमंशः प्रत्यक्षस्य विषयः, हट्टस्थादिरजतं तु स्मरणस्य विषयः, तयोः प्रत्यक्ष-स्मरणयोः शुक्ति-रजतयोश्चेन्द्रियदोषवशाद् भेदग्रहणं न भवति इति भेदा( ऽविवेका) ख्यातिरिति मीमांसकाः।
अनिर्वचनीयख्याति म सत्त्वेनासत्वेन चानिर्वचनीयस्य रजतादेः ख्यातिः-प्रतीतिः तथाहि- 'शुक्ताविदं रजतम्' इत्यत्र रजतं न सद् बाध्यमानत्वात्, सतो न बाध्यमानत्वं यथा सत्यरजतम्, नाप्यसत् प्रतीयमानत्वात्, असत् न प्रतीयते वन्ध्यास्तनन्धयवत्, तस्मादत्रानिर्वचनीयरजतोत्पत्तिरङ्गीकर्तव्या, इति अद्वैतवेदान्तिनः । ___ सत्ख्याति म सतो-विद्यमानविषयस्य ख्यातिः प्रतीतिः तथाहि'शुक्ताविदं रजतम्' इत्यत्र शुक्तौ विद्यमानस्यैव रजतांशस्य प्रतीतिः "तदेव सदृशं तस्य यत् तद् द्रव्यैकदेशभाक्" इति नियमात् पञ्चीकरणप्रक्रियया च तत्र रजतांशानां विद्यमानत्वात् । अदृष्टवशात् तु भूयसामपि शुक्त्यंशानां न
૨ ૨