________________
पर्यायाणा-मपीत्यर्थेनाऽभेदवृत्तिः। य एव चाविनाभावः कथञ्चितादात्म्य स्वरूपोऽस्तित्वस्य संबन्धः स एवानन्तधर्माणामपिति सम्बन्धेनाऽभेदृवृत्तिः। य एव चोपकारोऽस्तित्वस्य स्वानुरक्तत्वकरणं-स्ववैशिष्टयसम्पादनं - स्वप्रकारकधर्मिविशेष्यकज्ञानजनकत्वपर्यवसन्नं, ( अस्तित्वस्य स्वानुरक्तत्वकरणं हि अस्तित्वप्रकारकघटविशेष्यकज्ञानजन-कत्वम् ) स एवोपकारोऽनन्तधर्माणामपीति उपकारेणाभेदवृत्तिः । य एव गुणिनः संबन्धी देशः . क्षेत्रलक्षणोऽस्तित्वस्य स एवान्यधर्माणामपीति गुणिदेशेनाऽभेदवृत्तिः । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स, एवाऽपरधर्माणामपीति संसर्गेणा-भेंदवृत्तिः । ननु सम्बन्धसंसर्गयोः को विशेष: ? इति चेद्, उच्यते-द्रव्य-पर्याययोः कथञ्चिद् भिन्नाभिन्नत्वापरपर्याय-कथञ्चित्तादात्म्यलक्षणः सम्बन्धः संसर्गश्च तत्र यदा अभेदस्य प्राधान्यं भेदस्य च गौणत्वं विवक्ष्यते तदा सम्बन्धः यदा तु भेदस्य प्राधान्यमभेदस्य च गौणत्वं विवक्ष्यते तदा संसर्ग इत्युच्यते । य एवास्तीतिशब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एव अनन्तपर्यायात्मकस्य वस्तुनो वाचक इति शब्देनाभेदवृत्तिः । .....
. एवं कालादिभिरष्टविधाभेदवृत्तिः पर्यायार्थिकनयस्य गुणभावे द्रव्यार्थिकनयप्राधान्यादुपपद्यते। द्रव्यार्थिकनयगुणभावे पर्यायांर्थिकनयप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवतीति कालादिभिर्भिन्नानाममपि गुणानामभेदोपचारः क्रियते इति । एवं कालादिभिरभेदवृत्त्या अभेदोपचारेण वा यौगपद्येनानन्तधर्मात्मकस्य वस्तुनः प्रतिपादकं वाक्यं सकलादेश इत्युच्यत ॥ ४४ ॥
ટીકાઈ- એકીસાથે અનંતધર્માત્મક વસ્તુને પ્રતિપાદન કરનારું વચન સકલાદેશ છે.
તેનો અર્થ આ પ્રમાણે છે –સકલાદેશ દ્વારા જ્યારે વિવક્ષા કરાઈ હોય छे त्यारे "स्यादस्त्येव घटः'' उथंथित् छ ०४ मा वाध्य मात्र अस्तित्व ધર્મથી વિશિષ્ટ એવા ઘડાનો બોધક નથી પરંતુ અનંતધર્માત્મક એવા ઘટને જણાવનાર છે.
प्रश्न :- ननु इत्यादि. मस्तित्व धर्मथी युति मेवी वस्तुने ४५॥वनार વાક્ય અનંતધર્માત્મક વસ્તુને કઈ રીતે જણાવે છે?
૧૮૪