SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अथ सकलादेशं लक्षयन्ति प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा यौगपद्येन प्रतिपादकं वचः सकलादेशः ॥ ४-४४ ॥ આ સપ્તભંગી દરેકમાંગે સકલાદેશસ્વભાવવાળી અને વિકલાદેશસ્વભાવवाणी छे. પ્રત્યક્ષાદિ પ્રમાણોથી જાણેલી એવી અનંતધર્મવાળી વસ્તુનું કાલાદિ (આઠ) દ્વાર વડે અભેદવૃત્તિની પ્રધાનતા દ્વારા અથવા અભેદ-ઉપચારદ્વારા એકીસાથે પ્રતિપાદન કરનારૂ જે વચન તે ‘સકલાદેશ' કહેવાય છે. यौगपद्येनानन्तधर्मात्मकं वस्तु प्रतिपादयति सकलादेशः । अयमर्थः- सकलादेशत्वेन विवक्षितं 'स्यादस्त्येव घट:' इदं वाक्यं न केवलमस्तित्वधर्मविशिष्टं घटं बोधयति किन्तु अनंतधर्मात्मकं घटं प्रकाशयति । ननु कथमस्तित्वधर्मविशिष्टवस्तुबोधकमिदं वाक्यमनन्तधर्मात्मक-वस्तुबोधकम् ? इति चेत्, उच्यते - सर्वधर्माणामस्तित्वात्मकत्वाद् एकधर्म. विशिष्टवस्तुप्रतिपादनद्वारा इदं वाक्यं अनन्तधर्मात्मकं वस्तु प्रतिपादयति । ननु सर्वधर्माणामस्तित्वात्मकत्वेनन संभवति परस्परभिन्नत्वात् सर्वधर्माणामिति चेत्, न, कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा अस्तित्वाख्यस्य धर्मस्यानन्तधर्मात्मकत्वोपपत्ते:, तथाहि - यदा काला - दिभिरष्टाभिः कृत्वा अभेदवृत्तेः- धर्म - धर्मिणोरभेदस्य प्राधान्यमङ्गीक्रियते तदा कालादिभिः समस्तधर्माणां तादात्म्येनावस्थितत्वात् 'स्यादस्त्येव घट:' इतिवाक्यमेकधर्मविशिष्टवस्तुप्रतिपादनमुखेन यौगपद्येनानन्तधर्मात्मकं वस्तु प्रतिपादयति । के पुन: कालादयः ? इति चेत्, उच्यते - कालः आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्दश्चेत्यष्टौ । तंत्र 'स्यादस्त्येव घट:' इत्यत्र घटादौ यत्कालावच्छेदेनास्तित्वं वर्तते तत्कालावच्छेदेन शेषा अनन्तधर्मा अपि तत्र वर्तन्ते इति कालेनाऽभेदवृत्तिः । देवास्तित्वस्य घटगुणत्वमात्मरूपं स्वरूपं तदेवान्यसर्वगुणानामिति आत्मरूपेणाभेदवृत्तिः। य एव च घटद्रव्यरूपोऽर्थोऽस्तित्वस्याऽऽधारः स एवान्य १८३
SR No.005872
Book TitlePramannaytattvalok
Original Sutra AuthorN/A
AuthorMahayashashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2003
Total Pages348
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy