SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४८ શાંકર વેઠાન્તમાં અવિદ્યાવિયાર ટિપ્પણ न तु १. यद्वा भ्रमोपादानत्वमज्ञानलक्षणम् । इदं च लक्षणं विश्वभ्रमोपादानमायाधिष्ठानं ब्रह्मेति पक्षे, ब्रह्ममात्रोपादानत्वपक्षे, ब्रह्मसहिताविद्योपादानत्वपक्षे वा । अतो ब्रह्मणि नातिव्याप्तिः, इतरत्र तु पक्षे परिणामित्वेनाचेतनत्वेन वा भ्रमोपादानं विशेषणीयमिति न दोषः । अद्वैतसिद्धि, पृ. ५४५ २. अभावारोपनिवर्तकप्रमानिवर्त्याज्ञाने चाव्याप्तिः । न्यायामृत, पृ. ३०४ न वाभावारोपनिवर्तकप्रमानिवर्त्येऽव्याप्तिः, तस्यापि भ्रमोपादानत्वात् । अद्वैतसिद्धि, पृ. ५४५ 3. ...भावरूपाज्ञानोपादानकत्वायोगात् । न्यायामृत, पृ. ३०५ ननु भ्रमे भावविलक्षणाज्ञानोपादानकत्वं न घटते, भ्रमस्य भावविलक्षणत्वे उपादेयत्वायोगात् भावत्वे च भावोपादानकत्वनियमादिति चेत् । अद्वैतसिद्धि, पृ. ५४५ ४. न, अज्ञानस्य भ्रमस्य च भावविलक्षणत्वेऽप्युपादानोपादेयभावोपपत्तेः । न हि भावत्वमुपादानत्वे' उपादेयत्वे वा प्रयोजकम् आत्मनि तददर्शनात्, किन्त्वन्वयिकारणत्वमुपादानत्वे तन्त्रम्, सादित्वमुपादेयत्वे, तदुभयं च न भावत्वनियतम् । अत उपादानोपादेयभावोऽपि न भावत्वनियतः । अद्वैतसिद्धि, पृ. ५४५-५४६ ५. न चैवं ध्वंसस्याप्युपादेयत्वापत्तिः इष्टापत्तेः । अद्वैतसिद्धि, पृ. ५४६ ५. न चैवं ज्ञानप्रागभावस्यैव भ्रमोपादानत्वमस्तु किमभावविलक्षणाज्ञानोपादानकल्पनेनेति वाच्यम् । अद्वैतसिद्धि, पृ. ५४६ ७. प्रागभावस्य प्रतियोगिमात्रजनकत्वनियमेन भ्रमं प्रति जनकत्वस्याप्यसिद्धेः तद्विशेषरूपोपादानत्वस्यैव दूरनिरस्तत्वात् । अतः सद्विलक्षणयोरज्ञानभ्रमयोर्युक्तमुपादानोपादेयभावः । अद्वैतसिद्धि, पृ. ५४६ ८. भ्रमस्य च सद्विलक्षणत्वमुक्तम्, वक्ष्यते च । अद्वैतसिद्धि, पृ. ५४६ ७. न च एवमज्ञानानुविद्धतया भ्रमस्य प्रतीत्यापत्तिः मृदनुविद्धतया घटस्येवेति वाच्यम् । अद्वैतसिद्धि, पृ. ५४६ किञ्च यदनुविद्धतया भाति तत् तदुपादानकम् । न च रूप्यं तज्ज्ञानं वा अज्ञानमिति भाति । न्यायामृत, पृ. ३०७ १०. यत् यदुपादानकं तत् तदनुविद्धतयैव प्रतीयत इति व्याप्त्यसिद्धेः । नहि घटोपादानकं रूपं घट इति प्रतीयते, प्रकृति-द्वयणुकाद्यनुविद्धतया प्रतीतेः परैरप्यनभ्युपगमात् । अद्वैतसिद्धि, पृ. ५४६ ११. केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव। अद्वैतसिद्धि, पृ. ५४६ १२. इष्टसिद्धि, गायकवाड सरिझ, पृ. ६३-६४ १३. द्वितीयलक्षणेऽपि यावन्ति ज्ञानानि तावन्त्यज्ञानानीति मते अभ्रमपूर्वकप्रमानिवर्त्याज्ञाने... अव्याप्तिः । न्यायामृत, ३०४ न च यावन्ति ज्ञानानि तावन्त्यज्ञानानि इति पक्षे भ्रमापूर्वकप्रमानिवर्त्याज्ञाने अव्याप्तिः । अद्वैतस्त्रिद्धि, पृ: ५४६ १४. भ्रमोपादानतायोग्यत्वस्य विवक्षितत्वात्, सहकारिवैकल्यात् कार्यानुदयेऽपि योग्यतानपायात् । अद्वैतसिद्धि, पृ. ५४६
SR No.005850
Book TitleAvidyavichar
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherSanskrit Sanskriti Granthmala
Publication Year2001
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy