________________
અવિદ્યાનું લક્ષણ - પ્રથમ
३७
४२. ननु कार्यं कारणजन्यं तन्निवृत्तौ निवर्तते । पारमार्थिकं च सर्वं न कार्यं किन्तु यथाप्रमाणं किञ्चिदेवेति चेत् । अद्वैतदीपिका, द्वि.प., पृ. १२२
४३. तर्हि कल्पितमपि सर्वं दोषजन्यमिति न नियमः किन्तु यथानुभवं कार्यमेव कल्पितं दोषजन्यमिति तुल्यम् । अद्वैतदीपिका, द्वि.प., पृ. १२२
४४. दोषजन्यत्वाभावेऽपि कल्पितत्वे किमात्मापि कल्पितो न भवेत् इति चेत् । अद्वैतदीपिका, द्वि.प., पृ. १२२
४५. परमार्थस्यापि जन्यत्वे किमित्यात्मापि जन्यो न भवेदिति समम् । अद्वैतदीपिका, द्वि.प., पृ. १२२ ४१. किञ्च कल्पितत्वे हि जडत्वं प्रयोजकम् । तच्च दोषाजन्यत्वेऽप्यज्ञानादेरक्षतम् । अद्वैतदीपिका, द्वि.प., पृ. १२२
४७. न च वैपरीत्यमात्मनः सत्यज्ञानाद्यात्मकतया श्रुत्यादिभिः प्रमितत्वात् । अद्वैतदीपिका, द्वि.प.,
पृ. १२२
४८. आत्मनोऽपि कल्पितत्वे जगदान्ध्यप्रसङ्गात् । जगदवभासस्यात्मस्वरूपत्वात् । तथा च श्रुतिः “तमेव भान्तमनुभाति सर्वम्, तस्य भासा सर्वमिदं विभाति" इति । आत्मनोऽपि कल्पितत्वे तदधिष्ठानानिरूपणात् । सर्वभ्रमाधिष्ठानचिद्रूपस्यैव च आत्मत्वात् । कल्पितस्य बाधनियमात् आत्मनश्च तदभावात् प्रत्युत सर्वभ्रमबाधावधित्वात् । तथा च श्रुतिः - अथात आदेश ि नह्येतस्मादिति । नेति अन्यत् परमस्ति” इति । अद्वैतदीपिका, द्वि.प., पृ. १२२-१२३
• ४८. कल्पिताज्ञानस्यानादित्वे किं प्रमाणमिति चेत् । न, ब्रह्मविषयमज्ञानमनादि सर्गाद्यकार्योपादानत्वात् ब्रह्मवत् । कार्यस्य सर्गाद्यकालीनकार्योपादानत्वासम्भवान्नाप्रयोजकत्वम् । अद्वैतदीपिका, द्वि. प., पृ. १२३-१२४
५०. ज्ञाननिवर्त्यस्याभावविलक्षणस्य रूप्यवदनादित्वायोगाच्च । न्यायामृत, पृ. ३०१
-५१. ज्ञाननिवर्त्यत्वसमानाधिकरणाभावविलक्षणत्वेनाविद्यायाः सादित्वसाधने “अजामेकाम्..." “अनादिमायया...” इत्यादिशास्त्रविरोधः, अनादित्वसाधकेन ज्ञाननिवर्त्यत्वे सति भावविलक्षणत्वेन सत्प्रतिपक्षश्च भावत्वस्योपाधित्वं च । अद्वैतसिद्धि, पृ. ५४५
५२.. न च अभावविलक्षणाविद्यादौ भावविलक्षणत्वमसंभवि परस्परविरोधादिति वाच्यम् । अद्वैतसिद्धि, पृ. ५४५
.... तन्मते अज्ञानस्य भावाभावविलक्षणत्वेन भावत्वाभावाच्च । भावविलक्षणस्याभावत्वनियमेन भावविलक्षणे अभाववैलक्षण्यस्याप्ययोगाच्च । ... न्यायामृत, पृ. ३०२
५.3. भावत्वाभावत्वयोर्बाधकसत्त्वेन तृतीयप्रकारत्वसिद्धौ परस्परविरहव्यापकत्वरूपविरोधासिद्धेः, परस्परविरहव्याप्यत्वरूपस्तु विरोधो नैकविरहेणापरमाक्षिपति । न हि गोत्वविरहोऽश्वत्वमाक्षिपतीत्युक्तम् । अद्वैतसिद्धि, पृ. ५४५
५४. अद्वैतसिद्धि, पृ. ४८- ९०
५. न्यायामृततरङ्गिणी, पृ. २२५
... तृतीयप्रकारे सिद्धे विरोधासिद्धिः, तस्यां सत्यां स इत्यन्योन्याश्रय इति । लघुचन्द्रिका, पृ. ५४५ ५५. तन्न, तृतीयप्रकारस्य बाधकसत्ताधीनत्वेन विरोधासिद्धयनपेक्षत्वात् । लघुचन्द्रिका, पृ. ५४५ ५७. अपि चानादेरभावविलक्षणस्यात्मवदनिवर्त्यत्वम् । न्यायामृत, पृ. ३०२