________________
ભાવરૂપ અવિદ્યાનું સાધક પ્રથમ પ્રકારનું સાક્ષિપ્રત્યક્ષ
૯૧
५५. ... ग्रहणसामग्रीतुल्यत्वं च प्रकृतेऽपि समम् । अद्वैतसिद्धि, पृ. ५५१ / लघुचन्द्रिका, पृ. ५५१ ५७. भावरूपाज्ञानवादेऽपि इदानीं वेदान्तश्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानस्य त्वयापि वक्तव्यत्वात् । न्यायामृत, पृ. ३१०
ननु श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानप्रागभावस्य सत्त्वेन तज्ज्ञानं त्वयापि वाच्यम्: तथा च तत्रापि व्याहतिस्तुल्येति चेत् । अद्वैतसिद्धि, पृ. ५५१
५८. न, श्रवणादिसाध्यमोक्षहेतुब्रह्मज्ञानरूपस्य प्रतियोगिनो ज्ञानाज्ञानाभ्यां व्याहत्यभावात्, न हि श्रवणादिसाध्यत्व - मोक्षहेतुत्वादिप्रकारकब्रह्मज्ञानज्ञानं ब्रह्मज्ञानमपि सत् श्रवणादिसाध्यं मोक्षहेतुर्वा येन तस्मिन् सति तादृग्ज्ञानप्रागभावो व्याहन्येत । अद्वैतसिद्धि, पृ. ५५१
५५२
A
५८.
' न जानामि इति धीस्तु वृत्तिज्ञानाभावविषयेति सुवचत्वात्... । तत्समं ज्ञानाभावेऽपि . तद्विशेषज्ञानाभावज्ञानं प्रति च तत्सामान्यज्ञानमेवान्वयव्यतिरेकाभ्यां हेतुः न तु तद्विशेषज्ञानमित्यविद्याविषयभङ्गे वक्ष्यते । न्यायामृत, पृ. ३१४
नन्वेवं ' न जानामि' इति धियो ज्ञानाभावविषयत्वेऽपि न प्रतियोगिज्ञानादिना व्याहतिः, सामान्यतो विषयप्रतियोगिज्ञानेऽपि विशेषतस्तदभावसम्भवात्, अन्यथा प्रागभावधीर्न स्यात्, तत्प्रतियोगिविशेषस्य सामान्यधर्मं विना विशेषतो ज्ञातुमशक्यत्वात् इति चेत् । अद्वैतसिद्धि, पृ. ५५२ १०. ... न, विशेषज्ञानाभावे हि विशेषज्ञानत्वावच्छिन्नं प्रतियोगीति तस्य ज्ञाने स विशेषोऽपि ज्ञातवे
विशेषज्ञानाभावव्याघातात् । यत्किञ्चिद्विशेषाभावश्च न सामान्यावच्छिन्नप्रतियोगिताक इत्युक्तम् । प्रतियोगितावच्छेदकप्रकारकज्ञानाभावेन प्रागभावप्रतीतिरसिद्धैव । अद्वैतसिद्धि, पृ. ५५२
११. ननु प्रतियोगितावच्छेदकप्रकारकज्ञानं नाभावज्ञाने कारणम् किन्तु अभावज्ञाने भासमानप्रतियोगिवृत्तिधर्मप्रकारकं ज्ञानम् | अद्वैतसिद्धि, पृ. ५५२
१२. ...सामान्यलक्षणाप्रत्यसत्त्यभ्युपगमे तु प्रतियोगिविषयत्वमपि तस्याधिकम्। अद्वैतसिद्धि, पृ. ५५२ 93. इतरथा तु तदेव इष्टवृत्तिसामान्यधर्मप्रकारकज्ञानमेवासिद्धव्यक्तिविषयेच्छाकृत्योः । अद्वैतसिद्धि, पृ. ५५२
१४..... न च प्रतियोगितानवच्छेदकधर्मेण कथं प्रतियोगिता गृह्यतामिति वाच्यम्। अद्वैतसिद्धि, पृ. ५५२ १५. न च... वाच्यम् विशेषावच्छिन्नाया व्याप्तेरिव सामान्येन ग्रहणसम्भवात् । अद्वैतसिद्धि, पृ. ५५२ .१ १ . तथाहि इदममिधेयवत् प्रमेयात् इत्यनुमाने यत्र प्रमेयं तत्राभिधेयमिति व्याप्तिग्रहणसमये वृत्तिमत्प्रमेयत्वावच्छेदेनैव सामानाधिकरण्यरूपव्याप्तिसत्त्वेऽपि तस्याः प्रमेयत्वरूपेणैव ग्रहणम्, न तु वृत्तिमत्प्रमेयत्वेन, गौरवात् । अद्वैतसिद्धि, पृ. ५५२
१७. वृत्तिमत्त्व विशेषणस्य व्यभिचारावारकत्वेन वैयर्थ्याच्च, अवृत्तिषु साध्यसामानाधिकरण्यरूपव्याप्त्यभाववत् साध्याभावसामानाधिकरण्यरूपव्यभिचारस्याप्यभावात्, व्यर्थविशेषणत्वरहितत्वे सति व्यभिचारिव्यावृत्तत्वमात्रेणैव व्याप्यतावच्छेदकत्वसम्भवाच्च । तथा च यथा वृत्तिमत्प्रमेयगतापि व्याप्तिः प्रमेयत्वेनैव गृह्यते, तथा तत्तन्नीलादिव्यक्तिगता प्रतियोगिता नीलत्वादिरूपेण गृह्यते इति न काचिदनुपपत्तिः । एवं च इहेदानीं घटो नास्तीति प्रतीतिरिव घटोपादानगततत्प्रागभावविषया मयि ज्ञानं नास्तीति प्रतीतिरपि प्रमातृगततत्प्रागभावविषयेति न काप्यनुपपत्तिरिति चेत् । अद्वैतसिद्धि, पृ. ५५२