________________
શાંકર વેદાન્તમાં અવિધાવિચાર
૯૦
४०. ... अज्ञानविशेषणतया तु अनुत्पन्नमपि ज्ञानं साक्षिवेद्यमिति न दोषसाम्यम् । अद्वैतसिद्धि, पृ. ५५० ४१. अपि च भावरूपाज्ञानावच्छेदकविषयस्याज्ञाने अज्ञानज्ञानायोगात् ज्ञाने चाज्ञानस्यैवाभावात् कथं भावरूपाज्ञानज्ञानम् ? न्यायामृत, पृ. ३१२
न च अवच्छेदकस्य विषयादेः प्रागज्ञाने कथं तद्विशिष्टाज्ञानज्ञानम् ? विशेषणज्ञानाधीनत्वात् विशिष्टज्ञानस्येति वाच्यम् । अद्वैतसिद्धि, पृ. ५५०
४२. विशेषणज्ञानस्य विशिष्टज्ञानजनकत्वे मानाभावात् प्रतियोगित्वाभावत्वयोः पूर्वानुपस्थितयोरपि तार्किकैरभावबोधे प्रकारीभूय भानाभ्युपगमात् । अद्वैतसिद्धि, पृ. ५५०-५५१
४३. तथापि विशेषणतावच्छेदकप्रकारकज्ञानं विना कथं विशिष्टवैशिष्ट्यबुद्धिरिति चेत् । अद्वैतसिद्धि, ' पृ. ५५१ / न्यायामृत, पृ. ३१५
४४. .न, विशिष्टवैशिष्ट्यबुद्धित्वेन विशेषणतावच्छेदकप्रकारकज्ञानत्वेन च कार्यकारणभावे मानाभावात्, प्रत्यक्षत्वादिरूपेण पृथक् पृथक् क्लृप्तकार्यकारणभावेनैवोपपत्तेः विशिष्टवैशिष्ट्यबुद्धित्वस्यार्थसमाजसिद्धत्वात् । अद्वैतसिद्धि, पृ. ५५१
४५. प्रत्यक्षत्वादिरूपेण पृथक् पृथक् क्लृप्तकार्यकारणभावेनैवोपपत्तेः विशिष्टवैशिष्ट्यबुद्धित्वस्यार्थसमाजसिद्धत्वात् । अद्वैतसिद्धि, पृ. ५५१
...
४५. इह च सामग्रीतुल्यत्वेन 'विशेष्ये विशेषणं तत्र च विशेषणान्तरम्' इति न्यायेन विशिष्ट - वैशिष्ट्यज्ञानसंभवात् । अद्वैतसिद्धि, पृ. ५५१
४७. अविद्योपहितचिद्रूपस्यैव साक्षित्वे तु नायं दोषः जन्यविशिष्टबुद्धावेव विशषणधीहेतुत्वात् । लघुचन्द्रिका, पृ. ५५१
४८. 'दण्डो रक्तो न वा' इति संशयोत्तरं 'विशेष्ये विशेषणं तत्रापि च विशेषणान्तरम्' इति रीत्या जायमाने 'रक्तदण्डवान्' इति ज्ञाने विशिष्टवैशिष्ट्यविषयताया अपि वक्तुं शक्यत्वात् विशेष्यान्वयिना यदन्वितं तस्यैव धीः तद्विशिष्टवैशिष्ट्यधीरिति अस्यापि वक्तुं शक्यत्वाच्चेति भावः । लघुचन्द्रिका, पृ. ५५१ ४८. अद्वैतसिद्धि, पृ. ५५१
५०. लघुचन्द्रिका, पृ. ५५१
५१. ... घटवदित्यादिबुद्धेरुक्तद्वैविष्ये सत्यपि तस्यां विशेषणतावच्छेदकप्रकारकनिश्चयो न हेतु:, किन्तु रक्तदण्डवदित्यादिविशिष्टवैशिष्ट्यबुद्धौ; 'दण्डो रक्तो न वा' इत्यादिसंशये तदनुत्पत्तेः । तथा च ज्ञानविरोधित्वसविषयकत्वविशिष्टाज्ञानवैशिष्ट्यबुद्धावपि न स हेतु:, न हि ज्ञानविरोधित्वसविषयकत्वयोरेकमपरत्र धर्मितावच्छेदकतया भातीति नियमः । न वा धर्मान्तरं तथेत्यपि नियमः मानाभावादिति भावः । लघुचन्द्रिका, पृ. ५५१
५२. अन्यथा तार्किकाणामपीश्वरस्य भ्रान्तिज्ञत्वं न स्यात् । भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्तत्त्वापत्त्या भ्रमावच्छेदकतयैव तद्ग्रहणं वाच्यम् । अद्वैतसिद्धि, पृ. ५५१; लघुचन्द्रिका, पृ. ५५१
५३. भ्रमविषयस्य स्वातन्त्र्येण ग्रहे भ्रान्तत्वापत्त्या भ्रमावच्छेदकतयैव तद्ग्रहणं वाच्यम्: तथा च क्व प्राक् तदवच्छेदकग्रहनियमः । अद्वैतसिद्धि, पृ. ५५१ / लघुचन्द्रिका, पृ. ५५१
५४. अद्वैतसिद्धि, पृ. ५५१ ५. अद्वैतसिद्धि, पृ. ५५१