________________
શાંકર વેદાન્તમાં અવિવાહિયાર १८. ... न, अभावज्ञाने प्रतियोग्यंशे भासमानस्य धर्मस्यैव प्रतियोगितावच्छेदकतयायत्किञ्चिद्विशेषाभावस्य
सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले 'निर्घटं भूतलम्' इति घटज्ञानवत्यपि स्वस्मिन्
मयि घटज्ञानं नास्तीति च प्रतीतेरापत्तेः पूर्वोक्तदोषात् । अद्वैतसिद्धि, पृ.५५२ १६. यत्किञ्चिद्घटज्ञानं घटाभावज्ञाने प्रतिबन्धकमिति तु ज्ञानज्ञानेपि तुल्यम् । उदाहृतव्याप्तिग्रहणे तु
बाधकाभावात् सामान्यावच्छेदेऽपि न दोषः। अद्वैतसिद्धि, पृ. ५५२ ७०....अवच्छेदेऽपीत्यपिकारेण इदं सूचितम् - गगनादाववर्तमानव्याप्तेः प्रमेयत्वं नावच्छेदकम्
अतिप्रसक्तत्वात् वृत्तिमत्त्वावच्छेदेन व्याप्तिधीसम्भवेन व्यर्थविशेषणत्वस्याप्यसम्भवात् । वृत्तिमत्प्रमेयत्वावच्छिन्नत्वस्य व्याप्तौ सत्त्वे तद्ग्रहणस्यादोषत्वात् । असत्त्वे तद्ग्रहणस्य भ्रमत्वादिति।
लघुचन्द्रिका, पृ.५५२ ७१. अथैवं प्रागभावप्रतीतिरेव न स्यात् । न, स्यादेव घटो भविष्यति' इतिप्रतीतेः धात्वर्थभविष्यत्ता
विषयत्वेन प्रागभावविषयत्वात् । अन्यथा दिनान्तरोत्पत्स्यमानघटे एतद्दिनवृत्तिप्रागभावप्रतियोगित्वेन . 'अद्य घटो भविष्यति' इति धीप्रसङ्गः । भविष्यत्त्वं च प्रतियोगितद्ध्वंसानाधारकालसम्बन्धित्वमू।
अद्वैतसिद्धि, पृ. ५५२ ७२. ध्वंसत्वं च प्रागभावानङ्गीकर्तृमते कादाचित्काभावत्वमेव । तदङ्गीकर्तृमतेऽपि प्रतियोग्यजनककादा
चित्काभावत्वम् । अद्वैतसिद्धि, पृ. ५५२