________________
શાંકર વેદાન્તમાં અવિદ્યાવિયાર ઘટત્વધર્મ જ્ઞાનનો પ્રકાર છે. બાહ્ય વસ્તુ(વિરોષ્ય)માં જે ધર્મ(વિરોષણ) હોય છે તે ધર્મ
જ્યારે તે વસ્તુનું જ્ઞાન થાય છે ત્યારે જ્ઞાનમાં ભાસે છે અને એ રીતે જ્ઞાનનો ધર્મ અર્થાત્
પ્રકાર બને છે, તે વસ્તુનો ધર્મ પ્રકારીભૂત થાય છે. १७. यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वाभावात्, अभावज्ञाने प्रतियोग्यंशे
प्रकारीभूतधर्मस्यैव प्रतियोगितावच्छेदकत्वात् । अन्यथा सामान्यभावसिद्धिर्न स्यात् । यावद्विशेषाभावान्यसामान्याभावानभ्युपगमेऽप्ययं दोषः । यत्किञ्चिद्विशेषाभावस्य सामान्यावच्छिन्नप्रतियोगिताकत्वे घटवत्यपि भूतले 'निर्घट भूतलम्' इति प्रतीतिः स्यात् । . .
अद्वैतसिद्धि, पृ. ५४८ १८. न्यायामृततरङ्गिणी, पृ. २२७ १६. लघुचन्द्रिका, पृ. ५४८ २०. ननुप्रतियोम्यंशे प्रकार एव प्रतियोगितावच्छेदकतया भातीति नियमस्त्वयापि न वाच्यः, पारमार्थिकत्वेन .
प्रपञ्चाभावघटितस्य प्रपञ्चे मिथ्यात्वस्य त्वयोक्तत्वात् । तथा चोक्तबुद्धौ ज्ञानविशेषत्वं प्रतियोगिन्यप्रकारोऽपि ज्ञानसामान्यनिष्ठप्रतियोगित्वे अवच्छेदकतया भासतामिति चेत् । लघुचन्द्रिका,
पृ. ५४९ / न्यायामृततरङ्गिणी, पृ. २२७ २१. ...न, विशेषरूपेण सामान्याभावासिद्धेः । ...अत एव घटत्वेन तद्घटो नास्तीति ज्ञानेऽपि
तद्घटत्वावच्छिन्नाभाव एव विषय इति भावः । लघुचन्द्रिका, पृ.५४९. . २२. 'वायौ रूपं नास्ति', 'पुरो देशे रजतं नास्ति' इत्याद्याप्तवाक्यजन्यप्रतीत्यनन्तरमपि तत्तत्संशयनिवृत्तिर्न
स्यात्; एकविशेषाभावबोधनेऽपि विशेषान्तरमादाय संशयोपपत्तेः। अद्वैतसिद्धि, पृ. ५४८-५४९ २३. अथ अभावबोधे प्रकारीभूतधर्मस्यावच्छेदकत्वं पूर्वानुपस्थितमपि संसर्गमर्यादया शाब्दबोधे अन्यत्र च.
भासते; न ह्यवच्छेदकत्वस्य स्वरूपसम्बन्धविशेषस्य ग्रहे अन्या सामग्री क्लृप्ता; तथा च तत्तद्विशेषाभावानां तत्तद्विशेषावच्छिन्त्रप्रतियोगिताकत्वात् सामान्यावच्छिन्नप्रतियोगिताकत्वं यावद्विशेषाभावकूटे वा व्यासज्यवृत्ति तदतिरिक्तसामान्याभावे वा प्रत्येकविश्रान्तमिति
तादृगभावप्रतीतेर्यावद्विशेषप्रतीतिविरोधित्वात् कुतो विशेषसंशयादिरिति चेत् । अद्वैतसिद्धि, पृ. ५४९ २४. सत्यम्, प्रकृतेऽपि ज्ञानत्वसामान्यावच्छिन्नप्रतियोगिताकाभावप्रतीतिर्यावज्ज्ञानविशेषविरोधि
नीति कथं तत्तत्कारणत्वाभिमतज्ञानविशेषे सति सा न व्याहन्यते । तथा च क्लृप्ताभावप्रतीतिवैलक्षण्येऽवश्यकल्प्ये लाघवात् विषयस्यैवाभाववैलक्षण्यं कल्पयितुमुचितम्, विषयावैलक्षण्ये
प्रतीतिवैलक्षण्यायोगात् । अद्वैतसिद्धि, पृ. ५४९ २५. विषयाज्ञानमनुभूय च पुरुषस्तनिवृत्त्यर्थं विचारे प्रवर्तते इति सर्वानुभवसिद्धम् । तद्यदि ज्ञानविशेषाभावो
'न जानामि' इति प्रतीतेर्विषयः तदा ज्ञातेऽपि तथा प्रतीत्यापातः ; तद्विचारार्थं च प्रवृत्तिः स्यात् । सामान्याभावे च बाधकमुक्तमेव । तस्मादभावविलक्षणमेवाज्ञानं मयि ज्ञानं नास्ति' 'अहमज्ञः'
इत्यादिधीविषय इति सिद्धम् । अद्वैतसिद्धि, पृ. ५४९ २१. न्यायामृततरङ्गिणी, पृ. २२७
... न च 'घटो न जानाति', 'न जानामि' इति ज्ञानयोर्विषयवैरूप्यं दोष इति वाच्यम् । लघुचन्द्रिका, पृ. ५४९