________________
८६
શાંકર વેદાન્તમાં અવિદ્યાવિયાર
ટિપ્પણ
१. तत्र चाज्ञाने ' अहमज्ञो मामन्यं च न जानामि' इति प्रत्यक्षम्, 'त्वदुक्तमर्थं न जानामि इति विशेषतः प्रत्यक्षम्, 'एतावन्तं कालं सुखमहमस्वाप्तं न किञ्चिदवेदिषम्' इति परामर्शसिद्धं सौषुप्तप्रत्यक्षं च प्रमाणम् । अद्वैतसिद्धि, पृ. ५४८
२. यच्चाज्ञाने प्रत्यक्षं मानमित्युक्तं तन्न । त्वन्मतेऽप्यहमर्थस्य भावरूपाज्ञानानाश्रयत्वेनाहमज्ञोऽहं न जानामीत्यादेः प्रामाण्याय ज्ञानाभावविषयत्वावश्यंभावात्... । न्यायामृत, पृ. ३०८
न चाहमर्थस्याज्ञानानाश्रयत्वेन कथमयं प्रत्ययो भावरूपाज्ञानपक्षे उपपद्यते इति वाच्यम् । अद्वैतसिद्धि, पृ. ५४८
3. अद्वैतसिद्धि, पृ. १-९०
४. अज्ञानाश्रयीभूतचैतन्ये अन्तःकरणतादात्म्याध्यासेन एकाश्रयत्वसम्बन्धेनोपपत्तेः । अद्वैतसिद्धि, पृ. ५४८
५. त्वन्मते जडावरकाज्ञानाभावेन त्वदुक्तमर्थं न जानामीत्यादेरपि प्रामाण्याय ज्ञानाभावविषयत्वाच्च । न्यायामृत, पृ. ३०६
आवरणकृत्याभावात् 'घटं न जानामि' इत्यादिप्रतीतेर्ज्ञानाभावविषयत्वे प्रकृतेऽपि तथास्त्विति । अद्वैतसिद्धि, पृ. ५४८
9. अत एव... निरस्तम्, तत्तदवच्छिन्नचैतन्यस्यैवाज्ञानाश्रयत्वेन तत्रापि तद्व्यवहारोपपत्तेः । अद्वैतसिद्धि, पृ. ५४८
७. ... साक्षिवेद्यसुखदुःखाज्ञानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन सुखं न जानामि शुक्तिरूप्यं न जानामि इत्यादेः ज्ञानाभावविषयत्वे वक्तव्ये त्वदुक्तमर्थं न जानामीत्यादेरपि तथात्वाच्च । न्यायामृत, पृ. ३०८
न च साक्षिवेद्ये सुखदुःखाज्ञानादौ प्रातिभासिके च भावरूपाज्ञानाभावेन तत्र न जानामीति प्रतीतिः कथमुपपद्यते इति वाच्यम् । अद्वैतसिद्धि, पृ. ५४८
८. ...स्वस्मिन् विद्यमाने साक्षिवेद्ये सुखादौ स्वभ्रमसिद्धे रूप्यादौ च ' न जानामि' इति व्यवहारासम्भवात् परसुखादौ ‘न जानामि' इति व्यवहारस्य परोक्षज्ञाननिवर्त्स्न्येन प्रमातृगताज्ञानेनैवोपपत्तेः । अद्वैतसिद्धि, पृ. ५४८
७. त्वन्मते परोक्षवृत्तेर्विषयावरकाज्ञानानिवर्तकत्वेन परोक्षतो ज्ञातेऽपि ' न जानामि' इत्यनुभवापाताच्च । न्यायामृत, पृ. ३०९
अत एव परोक्षज्ञानेन प्रमातृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेन 'न जानामि इति व्यवहारापत्तिरिति । अद्वैतसिद्धि, पृ. ५४८
१०. ... निरस्तम् । प्रमातृगताज्ञानकार्यस्य ' न जानामि' इति व्यवहारस्य विषयगताज्ञानेनापादयितुमशक्यत्वात् । अद्वैतसिद्धि, पृ. ५४८
...
११. ...
. विषये प्रमातरि चाज्ञानस्यैकत्वाच्च... अत एव परोक्षज्ञानेन प्रमातृगताज्ञाने नाशितेऽपि विषयगताज्ञानसत्त्वेऽपि ‘न जानामि' इति व्यवहारापत्तिः । न्यायामृततरङ्गिणी, पृ. २२७