________________
द्वितीय उद्देशकः अथ लोकसंज्ञाप्रधानस्य भावसुप्तस्याऽसातलक्षणं फलमुच्यते___जाइं च बुद्धिं च इहज्ज पास, भूएहिं सायं पडिलेह जाणे । तम्हा अइविज्जे परमं त्ति णच्चा, सम्मत्तदंसी ण करेइ पावं ॥१॥
जाति- प्रसूतिं च बालकुमारयौवनवृद्धास्थापर्यन्तां च वृद्धिं तत्फलं च दुःखम् इह अब आर्य ! वा पश्य दृष्टवा अवबुद्ध्यस्व । किञ्च भूतैः - चतुर्दशभूतग्रामैः सममात्मनः सातं प्रत्युपेक्ष्य जानीहि, यथा त्वं सुख-प्रियस्तथाऽन्येऽपि । तस्मात् अतिविद्यः परमं- मोक्षं ज्ञानादिकं वा तन्मार्गमिति ज्ञात्वा सम्यक्त्वदर्शी समत्वदर्शी वा न करोति पापमिति । पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह -
उम्मुंच पासं इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी । कामेसुगिद्धाणिचयं करंति, संसिच्चमाणा पुणरितिगब्भं ॥ २ ॥
उन्मुञ्च पाशं इह मत्यैः सार्धं, स हि मर्त्य आरम्भजीवी उभयानुदर्शी शारीरमानसैहिकामुष्मिकदुःखानुदर्शी । किञ्च- कामेषु गृद्धाः कर्मनिचयं कुर्वन्ति, संसिच्यमानाः कर्मणा पुनन्ति गर्भमिति ॥२॥ तदेवमनिभृतात्मा किंभूतो भवतीत्याह -
अवि से हासमासज्ज, हतां णंदीति मण्णइ ।
अलं बालस्स संगेण, वेरं वड्डइ अप्पणो ॥ ३ ॥ स हासमासाद्य हत्वाऽपि प्राणिनो नन्दिरिति मन्यते । अलं बालस्य सङ्गेन, यो वैरं वर्द्धयति आत्मनः ॥३॥ यतश्चैवमतः किमित्याह -
तम्हा अइविज्जो परमंति णच्चा, आयंकदंसी ण करेइ पावं । अग्गं च मूलं विगिंच वीरे, पलिच्छिंदिया णं णिक्कम्मदंसी ॥४॥
तस्माद् अतिविद्यो मोक्षं तत्कारणं वा संयमं परममिति ज्ञात्वा, आतङकदर्शी न करोति पापम् । अग्रं-भवोपग्राहिकर्मचतुष्टयम् मोहनीयव्यतिरिक्तं मिथ्यात्वव्यतिरिक्तं वा कर्म मूलं च • घातिचतुष्टयं मोहनीयं मिथ्यात्वं वा कर्म त्यज धीरः । किञ्च रागादीनि कर्माणि वा तपःसंयमाभ्य परिच्छिद्य निष्कर्मदर्शी भवति ॥ ४ ॥
११२)OOOOOOOOOOOOOOOOOOOOOOOOOOOO | श्री आचारांग सूत्र