SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ७९ યદુન १०५ न चालब्धात्मनस्तस्य व्यापारः परजन्मनि । लब्धात्मनस्तु व्यापारे स्थितिः सिद्धा क्षणान्तरे ॥ न्यायमञ्जरी, भा० २, पृ० २८ । १०६ नापि सहकारिणो भावस्य स्वरूपातिशयमादधाति किन्तु सहकारिण एव ते 1 अतिशयः पुनरेतस्य सहकारिसाहित्यम् । न्यायकन्दली पृ० १८५ । १०७ उत्पत्तावपि तुल्योऽयं प्रलापः, भवनस्वभावश्चेद् घटः स्वत एव भवति किं दण्डादिसामय्या, अभवनस्वभावस्तु कर्तुमशक्यः खरविषाणवदिति, कारणब्यापारकार्य - त्वदर्शनादपर्यनुयोग एष इति चेद्विनाशेऽपि समः समाधिः । न्यायमञ्जरी, भा० २, पृ० ३० । १०८ उत्पन्नो भावः किमेकक्षणावस्थायी किं वा क्षणान्तरेऽप्यवतिष्ठते, क्षणान्तरावस्थितिपक्षे तावत् क्षणिकत्वव्याहितर नेककालावस्थानात्, एकक्षणावस्थायित्वे तु क्षणान्तरे स्थित्यभाव इति न भावाभावयोरेकत्वं कालभेदात् । न्यायकन्दली पृ० १९० । १०८ अथ मतं न ब्रूमो भावः स्वस्यैवाभावः किन्तु द्वितीयक्षणः पूर्वक्षणस्याभावः इति । तदप्यसारम्, पूर्वापरक्षणयोर्व्यक्तिभेदेऽपि स्वरूप्रविरोधस्याभावात् यथा घटो भिन्नसन्तानवर्तिना घटान्तरेण सह तिष्ठति एवमेकसन्ततिवर्तिनामपि सह तिष्ठेद्, द्वितीयक्षणग्राहि प्रमाणान्तरस्य तत्स्वरूपविधेश्चरितार्थस्य प्रथमक्षणानिषेधे प्रमाणत्वाभावात् । न्यायकन्दली पृ० १९० ।. > ११० अभावस्तु भावप्रतिषेधात्मेव घटो नास्तिीति प्रतीत्युदयात् ततस्तस्योत्पत्तिर्भावस्य निवृत्तिः, तस्यावस्थानं भावस्यानवस्थितिः, तस्योपलम्भो भावस्यानुपलम्भ इति युक्तम् परस्परविरोधात् । न्यायकन्दली पृ० १९० । १११ अन्योत्पादे कथमन्यस्य स्वरूपप्रच्युतिरित्यपर्यनुयोज्यम् वस्तुस्वाभाव्याद्, घट विनष्ट इति च व्यपदेशः तदवयवक्रियादिन्यायेनाभावोत्पत्त्यैव । अत एवायं तस्यैवाभावो न सर्वस्य । न्यायकन्दली पृ० १९१ । ११२ एवं व सति न भावस्य क्षणिकत्वं पश्चाद्भाविनस्तदभावस्य हेत्वन्तरसापेक्षस्य भावानन्तर्यनियमाभावात् । तथा च दृश्यते घटस्योत्पन्नस्य चिरेणैव विनाशो मुद्गराभिघातात् । न्यायकन्दली पृ० १९० । ११३ यच्च ध्रुवभावित्वाद् अभावस्य हेत्वन्तरानपेक्षेत्युक्तं तदपि ... अनैकान्तिकम्...। न्यायकन्दली पृ० १९२ । ११४... अनन्तास्तु विनाशहेतवोऽनियतकालाश्च तेषां सर्वदा सर्वेषां प्रतिबन्धस्याशक्यत्वात् कश्चिदेको निपतत्येव । न्यायकन्दलो पृ० १९२ । ,
SR No.005834
Book TitleShaddarshan Part 02 Nyaya Vaisheshik
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1974
Total Pages628
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy