________________
વૈશષિકદન
११५ सन्तानप्रतिबद्धायाः सदृशारम्भणशक्तेर प्रतिघाते विलक्षणसन्तानोत्पत्त्यसम्भवाद् मुद्गराभिघातेन तस्याः प्रतिहृतौ च भावप्रतिघाते कः प्रद्वेषः । न्यायकन्दली पृ० १९१ । अपि च ध्रुव भावित्वमसिद्धमनैकान्तिकं वा । इदं भवान् पृष्टो व्याचष्टां किं घटसन्तानात् सभागात् कपालसन्ततिध्रुव भाविनी न वा ? न चेद् न विनाशोऽपि घटस्य ध्रुवभावी, न खलु विसभागक्षणोत्पादमन्तरेण घटविनाशमीक्षामहे मांसचक्षुषस्तथा चासिद्धा ध्रुवभाविता विनाशस्य । न्या० वा० ता० टो० ३.२.१४ । १११ प्रतीयते तावदेतस्माद् विज्ञानात् पूर्वापरकालावच्छिन्नमेकं वस्तुतत्त्वं तदप्यस्य विषयो न भवतीति संविद्विरुद्धम् । ग्रहणस्मरणे च नैकं विषयमालम्बेते तस्मादेकमेवेदं विज्ञानमिति प्रतीति सामर्थ्यादुभयविषयमा स्थेयम् । प्रतीयमान कार्योत्पत्तये चाप्रतीयमानमपि कारणं कल्पयन्ति विद्वांसो न तु कारणाप्रतीत्या विशदमपि कार्यमपहूनुवते....। तेन यद्यपि प्रत्येक मिन्द्रिय संस्कारावसमर्थों तथापि संहताभ्यामिदमेकं कार्यं प्रत्यभिज्ञास्वभावं प्रभावयिष्यते, भविष्यति चैतदुभयकारणसामर्थ्यादुभयविषयं प्राप्स्यति च प्रत्यक्षतां विषयेन्द्रियसामर्थ्यानुविधानात् । न च यत्रैकै कम समर्थ तत्र मिलितानामपि तेषामसामर्थ्यं प्रत्येकमकुर्वंतामपि क्षित्युदकबीजानामन्योन्यसन्निधिभाजामङ्कुरादिजननोपलब्धेः । यत्र विलक्षणा सामग्री तत्र कार्यमपि विलक्षणमेव स्यादिति सुप्रतीतम् तेनास्य सन्निहितासन्निहितविषयतालक्षणे प्रत्यक्षतापरोक्षते न विरोत्स्येते । अत एव चेन्द्रियसन्निकर्षाभावेऽपि पूर्वकालप्रत्यक्ष तैव इन्द्रियज्ञानविषयत्वात् तन्मात्रानुबन्धित्वाच्च प्रत्यक्षतायाः । न्यायकन्दली पृ० १९३ - १९४ ।
,
,
وی
११७ अनिमेषदृष्टेरत्रुटितसत्ताकस्ताम्भादिपदार्थग्राहि प्रत्यक्षमुत्पद्यते । न्याजमञ्जरी भा० २, पृ० ३५ ।
११८ स्वात्मानमेव न गृह्णाति विज्ञानं कुतः स्वसमानकालतामर्थस्य गृह्णाति, गृह्णातु वा तथाऽपि पूर्वमयं नासीत् पश्चाच्च न भविष्यतीत्यत्र प्रत्यक्षमजागरूकं पूर्वापरकालताग्रहणात् । न्यायकन्दलो १९७ ।
११५ वर्तमानकालपरिच्छेदे चातत्कालव्यच्छेदो युक्तो भावाभावयोर्विरोधान्न तु कालान्तरसम्बन्धव्यवच्छेदो मणिसूत्रवदेकस्यानेकसम्बद्धत्वाविरोधात् । न्यायकन्दली पृ० १९७ ।
१२० मा नाम भूदतीतानागतकालग्रहणं वर्तमान एव तत्रानिमेषदर्शनस्य कियान् काल इति चिन्त्यताम् निमेषकृतस्यापि दर्शन विच्छेदस्यानवकाशाद् यावद्धि दर्शनं न विच्छिन्नं तावान् वर्तमानः काल इति तद्ग्रहणे स्थैर्यं गृहीतं भवति क्षणिकत्वम् । न्यायमञ्जरी, भा० २, पृ० ३५ ।