________________
૭૪
तस्माद् विनाशप्रतीत्यन्यथानुपपत्त्या प्रतिक्षणविनाशानुमानम् । प्रमाणवा स्वो० कर्ण० पृ० ३६९ ।
८७ तथा हि यद्येषां ध्रुवभावि तत्र तेषां कारणान्तरापेक्षा नास्ति यथा शरकृपाणादीनां लोहमयत्वे, ध्रुवभावी च कृतकानां विनाश इत्यनुमानं विनाशस्य हेत्वन्त रायत्ततां प्रतिक्षिपति, ये हेत्वन्तरसापेक्षा न ते ध्रुवभाविनः यथा वाससि रागादयः ।....... तथा यदि भावा अपि स्वहेतुभ्यो विनाशं प्रति हेत्वन्तरमपेक्षन्ते तदा हेत्वन्तरस्य प्रतिबन्धवैकल्ययोरपि सम्भवे कश्चित् कृतकोऽपि न विनश्येत् स्वहेतुतश्च विनश्वरस्वभावा जायमाना उत्पत्त्यनन्तरमेव विनश्यन्तीति सिद्धं क्षणिकत्वम् । कन्दली पृ० १८८ - १८९ ।
८०
न च भावादभिन्नस्य विनाशस्य हेत्वन्तरजन्यता कारणभेदस्य भेदहेतुत्वात् । भिन्नस्य हेत्वन्तरादुत्पादे च भावस्योपलब्ध्यादिप्रसङ्गः, अन्योत्पादादन्यस्वरूपप्रच्युतेरभावात् । कन्दली पृ० १८९ ।
अथ मृत्योरपक्रान्तस्तस्य चेत् प्रथमः क्षणः ।
अविनाशिस्वभावत्वादास्तां युगशतान्यपि ॥ न्यायमं० भा० २, पृ० २० । अथ कतिपयक्षणव्यवहितविनाशस्वभावो भाव इष्यते तर्हि प्राक्तननयेन कदाचिदपि न विनश्येत्, विनाशसमयेऽपि तत्स्वभावानपायेन पुनः कतिपयक्षणापेक्षणप्रसङ्गात् । न्यायमं० भा० २, पृ० २० ।
"
૯૨
व तर्हि मुद्गरादीनां व्यापारः ? विजातीयसन्ततिजन्मनीति ब्रूमः । न्यायमं०, भा० २, पृ० २० ।
नन्वेष प्रत्ययो न भावस्य पूर्वापरकालावस्थानं शक्नोति प्रतिपादयितुं न ह्येतदेकं विज्ञानं कारणाभावाद् इन्द्रियसन्निहितविषयं न पूर्वकालत्वमवगाहते, संस्कारोऽपि पूर्वानुभवजन्मा तद्विषये नियतो नापरकालतां परिस्पृशति, न च ताभ्यामन्यदुभयविषयं किञ्चिदेकमस्ति यदेतद् विज्ञानं प्रसुवोत । इतोऽपि नैतदेकं विज्ञानं स्वभावभेदात् - इदमिति हि प्रत्यक्षता तदिति हि परोक्षत्वम् ; प्रत्यक्षतापरोक्षत्वे च परस्परविरोधिनी नैके युज्येते, तस्माद् ग्रहणस्मरणात्मके
१९३ ।
૧
८३
ષદન
इमे संवित्ती भिन्नविषये । कन्दली पृ० ८४ परस्परपरित्यागव्यवस्थित निजात्मनाम् ।
,
एकत्र न समावेशः कथञ्चिदुपपद्यते ॥ न्यायमं० भा० २, पृ० २१ । ८५ अथोरजननापायरहितवस्तुस्वरूपग्राहिणी प्रत्यभिज्ञेत्युच्यते, तदप्ययुक्तम्, वर्तमानैकनिष्ठतायाः प्रदर्शितत्वाद् भावानां च विनाशजन्मनोर्वर्तमानो वा काल: स्यादन्यो वा ? तदन्यस्तावद् ग्रहीतुमशक्य इत्युक्तम्, वर्तमाने तु तदुत्पादविनाशकाले कथ्यमाने तद्ग्रहणात् तदविनाभूतौ भावानामुत्पादविनाशावपि गृहीतौ स्याताम् । न्यायमं०, भा० २, पृ० २२ ।
,