________________
७२
પ૬ ન
१२. न हि कार्यगुरुत्वमन्तरेण कार्यपातेऽन्यो हेतुरस्ति, तस्माद् गुरुवान्तरवत् कार्यमिति । न्यायवार्तिक २.१.३३ ।
६७ यत्र गुरवमाश्रयान्तरपाते हेतुर्भवति तत्र संयोग उपकरणम् यथा तुलापटलगुरुत्ववद्द्रव्यसंयोग इति । न तु कार्यकारणयोः संयोगोऽयुतसिद्धत्वात् । न्यायवार्तिक २.१.३३ ।
१४ समवायोपकरणं गुरुत्वं पातयिष्यतीति चेत्, न असङ्कीर्तनात् विरोधाच्च । न्यायवार्तिक २.१.३३ ।
६५ यत् पुनरवयविगुरुत्वस्य कार्यातिरेको न गृह्यते, तदवयवावयविगुरुत्वभेदस्याल्पान्तरत्वात् यथा महति द्रव्ये उन्मीयमाने तत्पतितसूक्ष्मद्रव्यान्तर गुरुत्वकार्याग्रहणम् । न्यायकन्दली पृ० ६४१ ।
"
६६ अनर्थान्तरभावे नावयवत्वं सिद्धयति तन्तूनामिति । किं कारणम् ? अवयव्यपेक्षत्वात् । अवयव्यपेक्षोऽवयवः । न चावयविप्रत्याख्यानेऽवयवत्वे किञ्चिद् बीजमस्ति । ... अनर्थान्तरं पटात् तन्तव इति ... ब्रुवाणः तन्तूनां तन्त्ववयवत्वं ब्रवीति । न्यायवार्तिक २.१.३३ ।
१७
न हि कारणमात्मानं निर्वर्तयतीति । न्यायवार्तिक २.१.३३ ।
९८ यच्चेदमुच्यते संस्थानविशेषावस्थानमिति । किं तदर्थान्तरभूतमाहो नेति । यद्यर्थान्तरभूतं किं तदिति वक्तव्यम् । अथ नोच्यते, शून्यं तर्हि इदं वाक्यम् 'संस्थान विशेषम्' इति । न्यायवार्तिक २.१.३३ ।
१८ अनर्थान्तराच्च तुर्यादेरर्थान्तरस्य पटस्योत्पत्तिदर्शनाद् विरुद्ध: ।... असम्बद्धार्थो न पट : पटादुत्पद्यत इति । न्यायवार्तिक २.१.३३ ।
७० नान्योऽवयव्यवयवेभ्यो ऽवयवान्तरावयवानामवयव्यन्तरार्थान्तरभावात् - इह येsa - यविनोऽर्थान्तरं भवन्ति तेऽवयव्यन्तरावयवा भवन्ति यथा चक्रादयो रथावयवा इति तेऽर्थान्तरं पटात् । यदि च तन्तवोऽपि पटादर्थान्तरं स्युः तेऽपि पटव्यतिरेकेणावयव्यन्तरावयवाः स्युः । न च ते तद्वयतिरेकेणावयव्यन्तरावयवास्तस्मान्नार्थान्तरमिति । ... न तन्तवस्तन्तूनामवयवा इति । न्यायवार्तिक २.१.३३ । ७१ न तावत् प्रत्यवयवं वर्तते परिमाणभेदात् । न्यायभाष्य ४ २. ८ । ७२ कात्स्न्ये॑न वृत्तौ वाऽवयवान्तरे वृत्त्यभावः । न्यायकन्दली पृ० १०७ । न तावदेकदेशेन वृत्तिरवयवव्यतिरेकेणास्यैकदेशाभावात् । न्यायकन्दली पृ० १०७ ।
७३
७४ तस्मिन्नपि चैकदेशेन वर्तमानोऽवयवः किमेकदेशेन वर्तते कृम्स्नेन वेति पूर्ववत् प्रसङ्गः । न्यायवार्तिक ४. २. ७ ।
७५ एकस्मिन् भेदाभावाद् मेदशब्दप्रयोगानुपपत्तेरप्रश्नः । न्यायसूत्र ४.२.११ ।