________________
५००
પદન
१८ न चैकेनोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाभ्यन्तरविशिष्टतद्ग्रह प्रसङ्गः, स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो वा तैर्विशिष्टत्वं वा तस्य स्वभावः, न च यत् स्वभावसंबन्धि स स्वभावः, तथा सत्यसम्बन्धित्वमेव, न हि तदेव तेन सम्बध्यते । न्या० वा० ता०टी०९.१.४ ।
१८ नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं समाकलयेत् । न्या वा०
ता०टी० १.१.४ ।
हन्त भोः किं मानसमपि ज्ञानमाकलयितुमर्हति ? संकलयति, मनसस्तत्कारणस्य सर्वविषयत्वाद् इति चेत्, यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता ? अस्माकं तु मनः सर्वविषयमपिं अचेतनतया न विचारकं तस्मादात्मैव सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च । न्या० वा०ता०टो० १.१.४ । ७१ एक विज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभाव उपकार्योपकारकभावो नास्ति, तथापि तदर्थालोचनाऽनुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्युत्पादकत्वमेवोप - कारकत्वमस्ति। अर्थौ हि रूपरूपिभावेन स्थितावपि नापाताजन्मना ज्ञानेन तथा गृहीत अपि तु स्वरूपमात्रेण, न हि यावदस्ति तावद् ग्रहीतव्यं तेन तदेकदेशग्रहणेऽपि नाप्रमाणता । सविकल्पकं तूक्तसामग्रीजन्म जात्यादि रूपतया द्रव्यं च रूपितया कल्पयेत् । पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्ष प्रभवतया प्रत्यक्ष भवत्येव । न्या० वा०ता०टी १.१.४ ।
७२ यद्यपि प्रत्येकमिन्द्रिय संस्कारौ असमर्थौ तथापि संहताभ्यामिदमेकं कार्यं प्रत्यभि ज्ञास्वभावं प्रभावयिष्यते । कन्दली पृ० १९४ |
७३ पिण्डान्तरानुवृत्तिग्रहणाद्धि सामान्यं गृह्यते । कन्दली पृ० ४४६ ।
७४ नैयायिकानां च सविकल्पप्रत्यक्षमयाः प्राणाः । न्यामं भा० १, पृ० ८१ । ७५ अलौकिकस्तु व्यापारस्त्रिविधः परिकीर्तितः । सामान्यलक्षणो ज्ञानलक्षणो योगजस्तथा । कारिकावली ६३ ।
७०
७६ तथा च सामान्यलक्षणां विना धूमत्वेन सकलधूमानां वह्नित्वेन सकलवह्नीनां च भानं कथं भवेत्तदर्थं सामान्यलक्षणा स्वीक्रियते । सिद्धान्तमुक्ता० ६५ । ७७ तेन सामान्यविषयकं ज्ञानं प्रत्यासत्तिरित्यर्थी लभ्यते । सिद्धान्तमुक्ता० ६४ । ७८ परन्तु समानानां भावः सामान्यम्, तच्च क्वचिन्नित्यं धूमत्वादि, ववचिच्चानित्यं घटादि । यन्त्रैको घटः संयोगेन भूतले समवायेन कपाले ज्ञातस्तदनन्तरं सर्वेषामेव तदुद्घटवतां भूतलादीनां कपालादीनां वा ज्ञानं भवति तत्रेदं बोध्यम् । परन्तु सामान्यं येन सम्बन्धेन ज्ञायते तेन संबन्धेनाधिकरणानां प्रत्यासति । सिद्धान्तमुक्ता० ६३ ।