SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ન્યાયદર્શન ૪૯૯ बालमूकादीनां नेन्द्रियज स्याद्विकल्पः शब्दस्मरणाभावात् । सङ्केतसमयवर्त्यवस्था - स्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्था मेदवत एकस्येन्द्रियजेन विकल्पेनाकलनात् । शब्दस्तु संपातायातो न निवेशयत्यात्मानमिन्द्रियजे विकल्पे......। तथाह संज्ञा हि स्मर्यमाणाऽपि प्रत्यक्षं तु न बाधते । संज्ञिनः सा तटस्था हि न रूपाच्छादनक्षमा || नार्थेन्द्रियव्यापारं व्यवधत्त इत्यर्थः । न्यायवा०ता०टी० १.१.४ । १२ न च प्रागवस्था स्मरण सापेक्षतया नेन्द्रियार्थसन्निकर्षः कारणं विकल्पस्येति साम्प्रतम्, यतो " न किञ्चिदेकमेकस्मात् सामग्र्याः सर्वसम्भवः” इति भवन्तोऽप्याहुः । अन्यथाऽऽलोकमनस्कारसापेक्षमर्थेन्द्रियं निर्विकल्पकमपि न जनयेत् । यत्तु प्रथमं नाजीजनत्तत् स्मरणसहकारिविरहात् । न हि नाजीजनत्कुशूलस्थं वीजमङ्कुरमिति समवहितक्षित्यादिसहकारिग्राममप्यस्याजनकं भवति । न्यायवा०ता०टी० १.१.४ । ६३ तत् किं यदिन्द्रियसंबद्धं तत्प्रत्यक्षम् ? तथा सत्याकाशपरमाण्वादयोऽपि तत्संयुक्ता इति तेऽपि प्रत्यक्षा: प्रसज्येरन् । तस्माद् यदेवेन्द्रियजस्य ज्ञानस्य गोचरस्तत् प्रत्यक्षम् न त्विन्द्रियसंबद्धम् । न्यायवा०ता०टी० १.१.४ । " १४ नन्वसंबन्धे इन्द्रियं कथं तत्र ज्ञानं जनयति ? 'तद्वा ज्ञानं कथं प्रत्यक्षम् ? प्रत्यक्षं चेत् कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति लक्षणं प्रत्यक्ष व्याप्नोति अस्यैव प्रत्यक्षस्य लक्षणेनाव्यापनात् ? न्या०वा०ता०टी०९.१.४ । ६५ मा भूदर्थस्य पूर्वकालवर्तितेन्द्रियगोचरः, तथाऽपि स्मरणसहकारिणा संस्कार सहका- रिणा वेन्द्रियेण यज्ञ्जनितं ज्ञानं तेन सा विषयीक्रियत एव । न च यत्स्मरणसहकारिन्द्रियार्थसन्निकर्षेणोत्पजनितं तदिन्द्रियार्थसन्निकर्षेणोत्पन्नं न भवति । तथा च नाव्यापकमस्य लक्षणम् । न्या०वा०ता०टी० १.१.४ । १६. ननु पूर्वापरावस्थाविषयं परामर्शज्ञानं कथमेकम्, विषयभेदात् परोक्ष्यापारोक्ष्यलक्षणबिदुद्धधर्म्मसंसर्गाच्च ? तथा हि तदिति परोक्षम्, इदमिति साक्षात्कारः, न च विरुद्धधर्म्मसंसर्गेऽप्येकत्वम् त्रैलोक्यस्यैक्यप्रसङ्गात् । विषयभेदश्च पूर्वदेशकालपरदेशकालसम्बन्धयोरेकस्य विरोधात् । न्या०वा०ता०टी० १.१.४ । १७ पूर्वापरदेशकालौ तत्सम्बन्धौ वा कामं भिधेयाताम् परस्पराभावाविनाभावात् तयोरेकाऽपि तादात्म्येनाप्रतिभासनात् । न तु तदालिङ्गितस्वभावः पद्मरागमणिः, तस्य ताभ्यामन्यत्वात् । न चान्यमेदोऽन्यभेदमापादयति · अतिप्रसङ्गात् । न्या०वा० ता०टी०९.१.४ ।
SR No.005834
Book TitleShaddarshan Part 02 Nyaya Vaisheshik
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1974
Total Pages628
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy