________________
ઝા
યગ્દર્શન
स्वलक्षणमनादिविकल्पवासना समारोपित जात्यादिभेदं तथा तथा विकल्प्यत इति युक्तमुत्पश्यामः । अपि च परमार्थसद्वस्तुद्वय वेदनेऽपि कुतो विशेषणविशेष्यभावः न ह्यङ्गुल्यावेकविज्ञानविषयौ मिथो विशेषणविशेष्यभावमापद्येते । विशेषणं खलूपकारकम् उपकार्य्यं च विशेष्यं नान्यथा तयोस्तद्भावः । न चैकविज्ञानमादयोर्ज्ञाप्यज्ञापकभावः कार्यकारणभावो वा सम्भवी समानकालयोस्तयोरुभयोरपि पौर्वापर्यानियमात् । न्यायवा०ता०टी० १.१.४ ।
ધ
५७ अपि चालोचिते वस्तुनीन्द्रियेण तदनन्तरोत्पन्नशब्द स्मरण व्यवहितव्या पारमिन्द्रियमर्थश्च न सविकल्पिकामपि धियमुपजनयितुमर्हतः । यथाऽऽह - ' अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् । अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितों भवेत् । न्यायवा०ता०टी० १.१.४ ।
*
न च यदेवालोचनमजीजनदिन्द्रियं तदेव स्मरणसहकारि विकल्पप्रत्ययमाधत्ते, न च स्मृतिव्र्व्यवधायिका, स्वाङ्गम् अव्यवधायकमिति न्यायात् । यतो यः प्रागजनको बुद्धेरुपयोगाविशेषतः स पश्चादपीति । न्यायवा०ता०टी० १.१.४ । ५८ नो खल्वतीतं भवति गोचरोऽक्षस्येति । न चागोचरे सहस्रेणाप्युपायैरेतत्प्रवर्तयितुमर्हतीति । न च स्मृतिरतीत विषयाऽननुभूतपूर्वं वर्तमानं गोचरयितुमर्हति । तद्गोचरत्वे चान्धानामपि रूपसाक्षात्कारप्रसङ्गः । यथाऽऽह — “तेन स्यादक्षापायेsपि नेत्रधीरिति" न्यायवा०ता०टी० १.१.४ ।
१८ यत्तावदुक्तमर्थ सामर्थ्यजत्वाभिला संसर्गयोग्यप्रतिभासत्वयोर्विरोध इति, तत्र ब्रूमः स्याद्विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति । उपपादयिष्यते च परमार्थसज्जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गयोग्यप्रतिभासं चेति न विरोधः । न्यायवा०ता०टी०१.१.४ ।
,
१०
न च द्रव्यादभिन्नं जात्यादि भिन्नं कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति साम्प्रतम्, द्रव्यादपि हि मेदः साधयिष्यते तेषाम् । यथा च मेदेऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोपपादितमधस्तात् । न्यायवा० ता० टी० । १.१.४ ।
११ न च भिन्नेन शब्देन डिन्थोऽयमित्यभेदकल्पनाद् अर्थस्य विकल्पानामनर्थजत्वमिति युक्तम् । उक्तमेतद् अव्यपदेश्यपदव्याख्यानावसरे यथा न शब्दाभेदेन अर्थी विकपैरुपदर्थते किन्तु तटस्थ एव शब्दः स्ववाच्यतया संसर्गेण संज्ञिनमुपलक्षयति न च शब्दार्थयोरे केन्द्रियग्राह्यता किन्तु प्रथममालोचितोऽर्थः सामान्य विशेषवान् सङ्केत समय वर्तिनीमात्मनोऽवस्थां स्मारयन् तत्कालभाविनं शब्दमपि स्मारयत्यवर्ज नीयतया, न विन्द्रियजविकल त्पादं प्रत्युपयोगः कश्चिच्छन्दस्मरणस्य । अन्यथा