________________
ન્યાયદર્શન
५१ तस्मात् सविकल्पकम विकल्पक वा यत् अतस्मि स्तदिति ज्ञानमुत्पद्यते तत् व्यभि
चारि । न्यायम,भा०१, पृ० ८२। ५२ ... न प्रमा नापि भ्रमः स्यान्निविकल्पकम् । करिकावली १३५ । ५३ न व्यवसायात्मक प्रत्यक्ष भवितुमर्हति, अभिलापसंसर्गयोग्यप्रतिभासं हि तत् । न
चेन्द्रियार्थाभ्यां लब्धजन्मविज्ञानमर्थावभासं शक्यमभिलापेन योजयितुम् । न ह्यर्थे शब्दाः सन्ति अर्थात्मानो वा तथा सत्यव्युत्पन्नस्यापि व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् । न चाभिलापोऽर्थासंस्पर्शी संवेदनधर्मोऽर्थेषु तन्नियोजनात् तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेन्नाभिलापम् । न हि रूपाज्जायमानं प्रत्यक्षं रससहिमेतदादर्शयति । तस्मादभिलापसंसर्गानपेक्षमभिलापसंसर्गिणमादर्शयद्विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापार तिरस्कृत्यानुभवप्रभवतयाऽनुभवव्यापारं दर्शनं पुरस्कृत्य वर्तमानमनुभवतयाऽभिमन्यन्ते प्रतिपत्तारः । न्यावा०ताल्टो. १.१.४ । अनियतप्रतिभासत्वं च प्रतिभासनियमहेतोरभावात् ... विकल्पविज्ञानं त्वाद् नोत्पद्यते, ततः प्रतिभासनियमहे
तोरभावादनियतप्रतिभासम् । न्यायबिन्दु धर्मोत्तरटोका, १.५। ५४ संकेतवशाच्छब्दानामर्थसम्बन्धेनार्थोपलब्धौ तत्म्मरणात् तत्संसृष्टवेदनमिति चेत्
यत्र एव तर्हि ते कृतसंकेताः तदेव स्मारयेदेतान् , तत्रैव च ते कृतसंकेता यदनुगतं सामान्यं न च तद् दृष्टम् , किन्तु स्वलक्षणं दर्शनगोचरः तदेव हि परमार्थसत् विज्ञानस्य कारणम् , न तु • सामान्यं सर्वसामर्थ्यरहितं हि तद् अलीकत्वात् । तस्माद् यद् दृष्टं न तेन शब्दानां सम्बन्धो येन तु सम्बन्धो न तद् दृष्टम् । अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वह्निरुष्ण इति वाक्यादपि प्रतीयेत । तथा च शब्दादपि तस्मिन्प्रतीते शीतापनोदनप्रसङ्गः । न्या०वाताटी०
५५ सामान्यविषयौ लिङ्गशब्दौ वस्तुभूतसामान्यवच्च स्वलक्षणं, तादृशं च तद्दर्शन
कारणमिति । निर्विकल्पकेन प्रथमाक्षसन्निपातजन्मना जातिमद्वस्तुवेदनात्तत्रोपलब्धचरसम्बन्धस्य शब्दस्य स्मरणं, तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाही. न्द्रियार्थसन्निकर्षजन्मविकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति । न्या०
बा०ता टी० १.१.४ । ५६ तन्न। पिण्डविवेकेन जात्यादेरविल्पकेनाग्रहणात् । न हि जातिजातिमन्तौ
क्रियाक्रियावन्तौ गुणगुणिनौ तत्समवायो वा विवेकेन चकासति । न च विवेके.
नाप्रतिभासमानाः शक्या मिथो योजयितुं क्षीरोदकवदतद्वेदिना । तस्मादेकमविभाग ૫. ૩૨