________________
४४०
ષદ ન
२४ प्राप्यकारित्वमपि इन्द्रियाणां वस्त्वभिप्रायमेवोच्यते तस्मादवस्तुत्वादभावस्य तेन सन्निकर्षमलभमानमपि नयनमुपजनयति तद्विषयमवगमम् । न्यायमं० भा० १, पृ० ४९ ।
२५ प्रतियोगिस्मरण व्यवहितेन्द्रियार्थसन्निकर्षो नालमभावधियमुपजनयितुम् । न्या०वा० ता० १.१.४ ।
"
२६ सविकल्पकस्य प्रत्यक्षसिद्धौ यथा शब्दस्मरणपूर्वगृहीतपिण्डानुसंधानादयो नेन्द्रियव्यापारं व्यवदधतीति । न च शब्दस्मरणादीनाम् अनुयोगिता, भूतलविकल्पकं प्रत्यङ्गत्वात् स्त्राङ्गमव्यवधायकमिति न्यायाद् घटस्य तु प्रतियोगितेति सांप्रतम् ः कस्य पुनः प्रतियोगी घटः । तदभावस्येति चेद् भवतु घटाभावानुभवस्य तु घटस्मरणं हेतुरिति न प्रतियोगि किं तु अनुयोग्येव । न्या व्वा०ता० १.१.४ । २७ यद्यत्राभविष्यद् घटो भूतलमिवाद्रक्ष्यत, तेन सह तुल्यदर्शनयोग्यत्वात् न च दृश्यते तस्मान्नास्तीति । तेन तर्केणानुज्ञायमानं ( प्रत्यक्षं) घटाभावविशिष्टभूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति । न्या०वा०ता० १.१.१. । २८ मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया । श्लो० वा० अभाव० २७ । २५ अत्राभावप्रत्यक्षे योग्यानुपलब्धिः कारणम् । तथाहि, भूतलादौ घटादिज्ञाने जाते घटाभावादिकं न ज्ञायते तेनाभावोपलभ्ये प्रतियोग्युपलम्भाभावः कारणम् । तत्र योग्यताप्यपेक्षिता सा च प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जित प्रतियोगिकत्वरूपा । तदर्थश्च प्रतियोगिनो घटादेः सत्त्वप्रसक्त्या प्रसञ्जित उपलम्भरूपः प्रतियोगी यस्य सोऽभावप्रत्यक्ष हेतुः । तथाहि यन्त्रालोकसंयोगादिकं वर्तते तत्र यद्यत्र घटः स्यात्तर्हि उपलभ्येतेत्यापादयितुं शक्यते । तत्र घटाभावादिप्रत्यक्ष भवति । अन्धकारे तु नापादयितुं शक्यते । तेन घटाभावादेरन्धकारे न चाक्षुषप्रत्यक्षम्, स्पार्शनप्रत्यक्षं तु भवत्येव, आलोकसंयोगं विनापि स्पार्शनप्रत्यक्षस्यापादयितुं शक्यत्वात् । सिद्धान्तमुक्ता० ६२ ।
30 वायौ रूपाभावः, पाषाणे सौरभाभावः, गुडे तिक्ताभावः, श्रोत्रे शब्दाभावः, आत्मनि सुखाभावः, एवमादयस्तत्तदिन्द्रियैर्गृह्यन्ते तत्तत्प्रत्यक्षस्यापादयितुं शक्यत्वात् । संसर्गाभावप्रत्यक्ष प्रतियोगिनो योग्यता, अन्योन्याभावप्रत्यक्ष त्वधिकरणयोग्यताऽपेक्षिता । अतः स्तम्भादौ पिशाचादिमेदोऽपि चक्षुषा गृह्यत एव । सिद्धान्त. मुक्ता० ६२ ।
३१. नन्वस्तु अभावानामधिकरणात्मकत्वं लाघवादिति चेत् ? सिद्धान्तमुक्ता० १२ । ३२ न, अनन्ताधिकरणात्मकत्वकल्पनाऽपेक्षयाऽतिरिक्तकल्पनाया एव लघीयस्त्वात् । सिद्धान्तमुक्ता० १२ ।
33 एवं च आधाराधेयभावोऽप्युपपद्यते । सिद्धांत मुक्ता० १२ ।