________________
વૈશેષિકદન
૪૪૧
३४ एवं च ततच्छब्दगन्धरसाद्यभावानां प्रत्यक्षत्वमुपपद्यते । अन्यथा तत्तदधिकरणानां तत्तदिन्द्रियाग्राह्यत्वादप्रत्यक्षत्वं स्यात् । सिद्धांतमुक्ता० १२ ।
३५ केयं घटविविक्तता ? सा भूप्रदेशादभिन्ना भिन्ना वा ? अभेदे भूप्रदेशाविशेषाद् घटसन्निधानेऽपि घटो नास्तीति प्रतिपत्तिर्जायेत, भेदे तु नाम्नि विवादः स्यात् । न्यायमं० भा० १, पृ० ५४ ।
"
३१ अथ मन्यसे भाव एवैकाकी सद्वितीयश्चेति द्वयीमवस्थामनुभवति । तत्रैकाकी भावः स्वरूपमात्रमिति केवल इति चोच्यते, तादृशस्य तस्य दृश्ये प्रतियोगिनि घटादौ जिघृक्षिते सत्युपलब्धिर्घटाद्यभावव्यवहारं प्रवर्तयतीति ।
अत्रापि नमः - घटादेरभावाद् भूतलं च व्यतिरेच्यैकाकिशब्दस्यार्थः कः समर्थितो भवद्भिर्यो हि नास्तीति प्रतिषेधधिय आलम्बनम् : नहि विषयवैलक्षण्यमन्तरेण विलक्षणांया बुद्धेरस्त्युदयः, नापि व्यवहारभेदस्य संभवः । स्वाभाविकं यदेकत्वं भावस्य तदेवैकाकित्वमिति चेत् ? किमेकत्वं प्रतियोगिरहितत्त्वम् ? एकत्वसंख्या वा ? एकत्वसंख्या तावद्यावदाश्रयभाविनी भावस्य सद्वितीयावस्थायामप्यनुवर्तते । अथ प्रतियोगिरहितत्वं स्वाभाविक मेकत्वमुच्यते, सिद्धं प्रमेयान्तरम् । कन्दली पृ० ५५३-५५४ ।
३७ अभावो नाम प्रतीयमानो न स्वतन्त्रतया घटाभावस्वरूप बदनुभूयतेऽपि तु देशकाल प्रतियोगिविशिष्टत्वेन, तथा ह्येवं प्रतीतिरिदमिदानीमिह नास्तीति । स चेन्थमवगम्यमानोऽपि यदि तैः संबद्ध एव भवेदभावः क एनं द्विष्यात् । न त्वसौ तत्सम्बद्धः । न हि देशेन कालेन प्रतियोगिना सहाऽस्य कश्चित्संबन्धः, संयोगसमवायादेरनुपपत्तेः । न च संबन्धरहितमेब विशेषणं भवति । ननु विशेषणविशेष्यभाव एव संबन्धः किं संबन्धान्तरापेक्षया ? मेवम्-संबन्धान्तरमूलत्वेन तदवगमात् संयुक्तं समवेतं वा विशेषणं भवति दण्डी देवदत्तो नीलमुत्पलमिति । न्यायमं० भा० १, पृ० ५१ ।
३८ तथा संबन्धाभावादिति यदुक्तं तत्र देशेन सह तावदभावस्य विशेषणविशेष्यभावः सम्बन्धः, स तु सम्बन्धान्तरमूल इति भावेऽयं नियमो नाभावे, न च भावेऽप्येष नियमो, न ह्येवं भवति यत्सम्बद्धं तद्विशेषणमेव, पादपीडिते शिरसि वा धार्यमाणे दण्डे दण्डीति प्रत्ययानुत्पादात्, नाप्येवं यद्विशेषणं तत्सम्बद्धमेवेति समवायस्य सत्यपि विशेषणत्वे सम्बन्धान्तराभावात् तस्मात्सम्बन्धान्तररहितोऽपि प्रतिबन्ध इव वाच्यवाचकभाव इव विशेषणविशेष्यभावः स्वतन्त्र एव सम्बन्धस्तथाप्रतीसरवधार्यते । न्यामं० भा० १, पृ० ५६ ।
"
३८ एवं कालेनापि सह स एव वेदितव्यः । न्यामं०, भा० १, पृ० ५६ ।
४० प्रतियोगिना तु सह विरोधोऽस्य सम्बन्धः, अयमेव च विरोधार्थः यदेकत्रो भयोरस
मावेशः । न्यामं०, भा० १, पृ० ५६ ।
,