________________
વૈશેષિકદન
२८५
१५ स किमकोऽनेको वा ? एक इति वदामः । बहूनामसर्वज्ञत्वेऽस्मदादिवदसामर्थ्यात् ,
सर्वज्ञत्वे त्वेकस्यैव सामर्थ्यादपरेषामनुपयोगात् । न च समप्रधानानां भूयसां सर्व दैकपत्ये हेतुरस्तीति कदाचिदनुत्पतिरपि कार्यस्य स्यात्, एकाभिप्रायानुरोधेन सर्वेषां प्रवृत्तावेकस्येश्वरत्वं नापरेषाम् , मठपरिषदामिव कार्योत्पत्त्यनुरोधेन सर्वेषामविरोधे
प्रत्येकमनीश्वरत्वम् । कन्दली पृ० १४१ । ११ सर्वज्ञत्वान्न कुत्रचिद्वस्तु'न विशेषानुपलम्भः । अतो न तन्निबन्धनं मिथ्याज्ञानम् ,
मिथ्याज्ञानाभावे च न तन्मूलौ रागद्वेषौ, तयोरभावान्न तत्पूर्विका प्रवृत्तिः, प्रवृत्त्यभावे च न तत्साध्यौ धर्माधर्मों, तयोरभावात् तज्जयोरपि सुखदुःखयोरभावः, सर्वदैव चानुभवसद्भावात्' - स्मृतिसंस्कारावपि नासाते इत्यष्टगुणाधिकरणो भगवानीश्वर इति केचित् । अन्ये तु बुद्धिरेव तस्याव्याहता क्रियाशक्तिरित्येवं वदन्त इच्छाप्रयत्नावप्यनङ्गी कुर्वाणाः षड्गुणाधिकरणोऽयमित्याहुः । स किं वद्धो मुक्तो वा ? नं तावद् बद्धः, बन्धनसमाज्ञातस्य बन्धहेतोः क्लेशादेरसम्भवात् । मुक्तोऽपि न भवति, बन्धविच्छेदपर्यायत्वान्मुक्तेः । नित्यमुक्तस्तु स्यात् । कन्दलो
पृ० १४२ । १७ कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ॥ वाक्यात् संख्याविशेषाच्च साध्यो
विश्वविदव्ययः ॥ न्यायकुसुमाञ्जलि ५.१ । १८ ननु यदि परमाणुषु कर्म स्यात् तर्हि संयोगस्यावर्जनीयत्वाद् द्वयणुकादिकमेण तदानी
मेव विश्वं जगदुत्पद्येत, अत उक्तं प्रचय इति । प्रचयाख्यमेव संयोगं तदा कर्मार
भते न तु कार्यारम्भकम् ... । बोधनी, न्यायकुसुमाञ्जलि २.३ । १. धृतेः खल्वपि । क्षित्यादिब्रह्माण्डपर्यन्तं हि जगत् साक्षात् परम्परया वा विधारक
प्रयत्नाधिष्ठितं गुरुत्वे सत्यऽपतनधर्मकत्वाद् वियति विहङ्गमशरीरवत् तत्संयुक्तद्रव्य
वच्च न्यायकुसुमाञ्जलि ५.४। .७० संहरणात् खल्वपि । ब्रह्माण्डादिद्वयणुकपर्यन्तं जगत् प्रयत्नवद्विनाश्यं विनाश्यत्वात्
पाट्यमानपटवत् । न्यायकुसुमाञ्जलि ५.४ । ७१ महाभूतसंप्लवसंक्षोभलब्धसंस्काराणां परमाणूनां ...। न्यायकुसुमाञ्जलि, २.३ । ७२ पदशब्देनात्र पद्यते गम्यते व्यवहाराङ्गमर्थोऽनेनेति वृद्धव्यवहार एवोच्यते । अतो
ऽपीश्वरसिद्धिः । तथाहि – यदेतत् पटादिनिर्माणनैपुण्यं कुविन्दाऽऽदीनां, वाग्व्यवहारश्च व्यक्तवाचां, लिपितत्क्रमव्यवहारश्च बालानां, स सर्वः स्वतन्त्रपुरुषविश्रान्तो
व्यवहारत्वात् । न्यायकुसुमाञ्जलि ५५। ७३ गृह्णाति हि ईश्वरोऽपि कार्यवशाच्छरीरमन्तरान्तरा, दर्शयत च विभूतिमिति ।
न्यायकुसुमाञ्जलि ५.५।