________________
२८४
પદર્શને
१० स हि सर्वप्राणिनां कर्मानुरूपं फलं प्रयच्छन् कथमनीश्वरः स्यादिति भावः । नहि
— योग्यतानुरूप्येण भन्यानां फलविशेषप्रदः प्रभुरप्रभुर्भवति । कन्दलो पृ० १३३ । ११ सर्वोऽपि कर्ता कारकस्वरूपमवधारयति, तत इच्छतीदमहमनेन निवर्तयामीति, ततः
प्रयतते, तदनु कायं व्यापारयति, ततः कारणान्यधितिष्टस्ति, ततः करोति, अनवधारयन्ननिच्छन्नप्रयतमानः कायमव्यापारयत् न करोतीत्यन्वयव्यतिरेकाभ्यां
बुद्धिवच्छरीरमपि कार्योत्पतावुपायभूतम् । कन्दली पृ० १३७ । १२. प्रभावातिशयादशरीरवदबुद्धिमान वायमीश्वरः करिष्यति । उपादानोपकरणादिस्व
रूपानभिज्ञो न शक्नोतीति चेत् . कुत एतत् ? तथानुपलम्भादिति चेत् : फलितं मनानि मनोर द्रुमेण । कन्दली पृ० १३७ । अत्र प्रतिसमाधि – किं शरीरित्वमेव कर्तृत्वमुत परिदृष्टसामर्थ्यकारकप्रयोजकत्वम् ? न तावच्छरित्वमेव कर्तृत्वम्, सुषुप्रस्योदासीनस्य च कतृ त्वप्रसङ्गात् , किन्तु प रदृष्टसामर्थ्यकारकप्रयोजकत्वम् तस्मिन् सति कार्योत्पत्तेः । तच्चाशरीरस्यापि निर्वहति यथा स्वशरीरप्रेरणायामात्मनः । अस्ति तत्राप्यस्य स्वकर्मोपार्जितं तदेव शरीरमिति चेत् सत्यमस्ति, परं प्रेरणोपायो न भवति, स्वात्मनि क्रियाविरोधात् प्रेर्यत याऽस्तीति चेत् ईश्वरस्यापि प्रेयः परमाणुरस्ति । ननु स्वशरीरे प्रेरणाया इच्छा प्रयत्नाभ्यामुत्पत्तरिच्छाप्रयत्नयोश्च सति शरीरे भावादसत्यभावाद् अति तस्य स्वप्रेरणायामिच्छाप्रयत्नजननद्वारेणोपायत्वमिति चेन्न, तस्येच्छाप्रयत्नयोरुपजननं प्रत्येव का कत्वात्, लब्धात्मकयोरिच्छाप्रयत्नयः प्रेर गाकरणकाले तु तदनुपायभूतमेव शरीर कर्मत्वादिति व्यभिचारः, अनपेक्षितशरीरव्यापारस्येच्छाप्रयत्नमात्रसचिवस्यैव चेतनस्य कदाचिरचेतनव्यापार प्रति सामर्थ्यदर्शनात् , बुद्धिमदव्यभिचारि तु कार्यत्व मितोश्वरसिद्धिः । इच्छाप्रयत्नोत्पत्तावपि शरीरमपेक्षणीयमिति चेत् अपेक्षतां यत्र तयोरागन्तुकन्वम् , यत्र पुनरिमौ स्वाभाविकावासाते तत्रास्यांपेक्षणं व्यर्थम् । न च बुद्धच्छाप्रयत्नानां नित्यत्वे कश्चिद् विरोधः । दृष्टा हि रूपादिनां गुणानामाश्र. यभेदेन द्वयो ग : नित्यतानित्यता च । तथा बुद्धयादीनामपि भवि यतीति । सेयमोश्वरवादे वादिप्रतिवादिनोः पराकाष्ठा । अतः परं प्रपञ्यः । कन्दलो पृ०
१३८ १४०। १४ आत्माधिष्ठिताः परमाणवः प्रवर्तिष्यन्त इति चेन्न, तेषां स्वकर्मोपार्जितेन्द्रियगगा.
घनसंविदां शरीरोत्पत्तेः प्राक् सर्वषियावबोधविर हात् । ... तेभ्यः परः सर्वार्थदर्शिसहजज्ञानमयः कर्तृस्वभावः कोऽप्यधिष्ठाता कल्पनीयः, चेतनमधिष्ठातारमन्तरेणाचेतनानां प्रवृत्त्यभावात् । कन्दली पृ० १४०-१४१ ।