________________
વેશયાદ ન
२८३.
५० यस्तु प्रयोजनविकल्पः - किमर्थ सृजति जगन्ति भगवान् ? इति - सोऽपि न पेशलः । स्वभाव एवैष भगवत: - यत् कदाचित् सृजति, कदाचिच्च संहरति विश्वमिति । कथं पुनर्नियतकाल एषोऽस्य स्वभाव इति चेत् आदित्यं पश्यतुदेर्वानां प्रियःयो नियतकालमुदेत्यस्तमेति च । न्यायमं०, भा० १, पृ० १८६ ।
५१. क्रीडार्थेऽपि जगत्सर्गे न हीयेत कृतार्थता । प्रवर्तमाना दृश्यन्ते न हि क्रीडासु दुःखिताः ॥ न्यायमं० भा० १, पृ० १८६ ।
५२ अथवा अनुकम्पयैव सर्ग संहारावारभतामीश्वरः । न्यायमं०, भा० १, पृ० १८६ । 43 शुभाशुभसंस्कारानुविद्धा एवात्मानः । ते च धर्माधर्मंनिगड संयतत्वादपवर्गं पुरद्वारप्रवेशमलभमानाः कथं नानुकम्प्या: ? अनुपभुक्तफलानां कर्मणां न प्रक्षयः । सर्ग -- मन्तरेण च तत्फलोपभोगासंभव इति शुभफलोपभोगाय स्वर्गादिसर्ग, अशुभफलोप-भोगाय नरकादिसृष्टिमारभते दयालुरेव भगवान् । उपमोग प्रबन्धेन परिश्रान्ता-नामन्तराऽन्तरा विश्रान्तये जन्तूनां भुवनोपसंहारमपि करोतीति सर्वमेतत्कृपानिबन्धनमेव । न्यायमं० भा० १, पृ० १८६ ।
9
—
५४ ननु च युगपदेव सकलजगत्प्रलयकरणमनुपपन्नम्, अविनाशिनां कर्मणां फलोपभोगप्रतिबन्धासंभवादिति चोदितम् न युक्तमेतत् • ईश्वरेच्छा प्रतिबद्धानां कर्मणां स्तिमितशक्तीनामवस्थानात् । तदिच्छा प्रेरितानि कर्माणि फलमादधति, तदिच्छाप्रतिबद्धानि च तत्रोदासते । कस्मादेवमिति चेत् - अचेतनानां चेतनानधिष्ठितानां स्वकार्य करणानुपलब्धेः । न्यायमं० भा० १, पृ० १८६ ।
,
५५ ननु एवं तर्हि ईश्वरेच्छेव भवतु कत्रों संहर्त्री च किं कर्मभिः ? – मैवम् - कर्मभिर्विना जगद्वैचित्र्यानुपपत्तेः । कर्मनैरपेक्ष्यपक्षेऽपि त्रयो दोषा दर्शिता एव - श्वस्य निर्दयत्वं, कर्मचोदनानर्थक्यम्, अनिर्मोक्षप्रसङ्गश्चेति । तस्मात् कर्मणामेव-नियोजने स्वातन्त्र्यमीश्वरस्य, न तन्निरपेक्षम् । न्यायमं० भा० १, पृ० १८७ । ५१ वेदस्य पुरुषः कर्ता त्रैलोक्यनिर्माणनिपुणः परमेश्वरः । न्यायमं० भा० १,
,
,
. पृ० १७५
५७ आप्तोपदेशः शब्दः । न्यासु० १.१.८ । मन्त्रायुर्वेदप्रमाण्यवच्च तत्प्रामाण्यमा-प्तप्रामाण्यात् । न्यायसू० २.१.६८ ।
५८ य एव आप्ता वेदार्थानां द्रष्टारः प्रवक्तारश्च ते । न्यायभा० २.१.६८ ।
५७ परार्थं प्रवृतोऽपि न सुखमयीमेव करोति, विचित्रकर्माशयसहायस्य कर्तृत्वादित्यर्थः । म चैवं सति करुणाविरोधः, दुःखोत्पादस्य वैराग्यजननद्वारेण परमपुरुषार्थहेतुत्वात् । कन्दली पृ० १३२ ।