________________
૨૮૨
પદન
४१ नित्यं तज्ज्ञानं कथमिति चेत् तस्मिन् क्षणमप्यज्ञातरि सति तदिच्छाप्रेर्यमाण कर्माधीन - नानाप्रकारव्यवहार विरमप्रसङ्गात् । प्रलयवेलायां तर्हि कुतस्तन्नित्यत्वकल्पनेति चेत्मेवम् - आप्रलया सिद्धे नित्यत्वे तदा विनाशकारणाभावात् अस्य आत्मन इव तज्ज्ञानस्य नित्यत्वं सेत्स्यति । पुनश्च सर्गकाले तदुत्पत्तिकारणाभावादपि नित्यं ज्ञानम् । न्यायम० भा० १, पृ० १०४ ।
,
४२ एवं च तदतीतानागतसूक्ष्मव्यवहितादिसमस्तवस्तुविषयं न भिन्नम् क्रमयौगपद्यविक ल्पानुपपत्तेः । क्रमाश्रयणे क्वचिदज्ञातृत्वं स्यादिति व्यवहारलोपः । यौगपद्येन सर्वज्ञातृत्वे कुतस्त्यो ज्ञानभेदः ? न्यायमं० भा० १, पृ० १८४ । ४३ प्रत्यक्ष साधर्म्याच्च तज्ज्ञानं प्रत्यक्षमुच्यते, न पुनरिन्द्रियार्थसन्निकर्षोम्पन्नत्वमस्यास्ति, अजनकानामेवार्थानां सवितृप्रकाशेनेव तेन ग्रहणात् । न्यायमं० भा० १, पृ० १८४ ।
ܕ
४४ ज्ञानवदन्येऽप्यात्मगुणा येऽस्य सन्ति, ते नित्या एव मनस्संयोगानपेक्षजन्मत्वात् । दुःखद्वेषास्तस्य तावन्न सन्त्येव । भावनाख्येन संस्कारेणापि न प्रयोजनम् ; सर्वदा सर्वार्थदर्शित्वेन स्मृत्यभावात् । अत एव न तस्यानुमानिकं ज्ञानमिष्यते । धर्मस्तु भूतानुग्रहवतो वस्तुस्वाभाव्याद् भवन्न वार्यते, तस्य च फलं परार्थनिष्पत्तिरेव । सुखं त्वस्य नित्यमेव, नित्यानन्दत्वेनागमात् प्रतीतेः । असुखितस्य चैवंविधकार्यारम्भयोग्यताऽभावात् । न्यायमं० भा० १, पृ० ४५ नैष दोष:- अनात्ममनस्संयोगजत्वादिच्छा स्वरूपमात्रेण नित्यापि कदाचित्सर्गेण कदाचित्संहारेण वा विषयेणानुरज्यते । सर्गस हारयोरन्तराले तु जगतः स्थित्यवस्थायां अस्मात्कर्मण इदमस्य संपयतामितीच्छा भवति प्रजापतेः । न्यायमं०, भा० १, पृ० १८५ ।
१८५ ।
४६ प्रयत्नस्तस्य संकल्प विशेषात्मक एवं । न्यायम० भा० १, पृ० १८५ । ४७ तदेव नवभ्य आत्मगुणेभ्यः पञ्च ज्ञानसुखेच्छा प्रयत्नधर्माः सन्तीश्वरे । चत्वारस्तु दु.खद्वेषाधर्मसंस्कारा न सन्तीत्यात्मविशेष एवेश्वरो न द्रव्यान्तरम् । न्यायमं०, भा० १, पृ० १८५ ।
४८ उच्यते- ज्ञानचिकीर्षा प्रयत्नयोगित्वं कर्तृत्वमाचक्षते । तच्चेश्वरे विद्यत एवेत्युक्तमेतत् । स्वशरीरप्रेरणे च दृष्टमशरीरस्याप्यात्मनः कर्तृस्वम्, इच्छामात्रेण च तस्य कर्तृत्वात् अनेकव्यापार निर्वर्तनोपात्तदुर्वह क्लेश कालुष्य विकल्पोऽपि प्रत्युक्तः । न्यायमं०, भा० १, पृ० १८५ ।
४५ यथा त्यंचेतनः कायः आत्मेच्छामनुवर्तते । तदिच्छामनुवर्त्स्यन्ते वथैत परमाणवः ||
न्यायम०,
भा० १, पृ० १८५ ।