________________
२०
MARHI
५ प्रतिपादितमेतत् , धर्माधर्मसाफल्यं चैवम् – यदि चानादिः संसारः सापेक्षश्च कर्ता,
एवं प्राण्यन्तरसमवायिना धर्माधर्माणां साफल्यम् । न्यायवा० ४.१.२१. । २२ अथायमीश्वरः कुर्वाणः किमर्थं करोति ? लोके हि ये कर्तारो भवन्ति ते
किञ्चिदुद्दिश्य प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेति, न पुनरीश्वरस्य हेयमस्ति दुःखाभावात्' , नोपादेयं वशित्वात् । क्रीडार्थमित्येके --- एके तावद् . ब्रुवते क्रीडार्थमीश्वरः सृजतीति । नन्वेतदयुक्तम् , क्रीडा हि नाम रत्यर्थं भवति, विना क्रीडया रतिमविदताम् , न च रत्यर्थी भगवान् दुःखाभावादिति । दुःखिनश्च सुखोपगमार्थ कीडन्ति । विभूतिख्यापनार्थभिन्यपरे - जगतो वैश्वरूप्यं ख्यापनीयमित्यपरे मन्यन्ते । एतदपि तागेव - न हि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चास्याख्याप न किञ्चिद्धीयत इति । किमर्थं तर्हि करोति ? तत्स्वाभ व्यात् प्रवर्तत इत्यदुष्टम् – यथा भूम्यादीमि धारणादिक्रियां तत्स्वाभाव्यात् कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात् प्रवर्तत इति प्रवृत्तिस्वभावकं
तत्तत्त्वमिति । न्यायवा० ४.१.२१ । २३ तत्स्वाभाव्यात् सततप्रवृत्तिरिति चेत् – 'अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं
प्रवृत्तिनिवृत्ती न प्राप्नुतः, न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तियुज्यत इति क्रमेणो.
त्पत्तिन प्राप्नोति तत्त्वस्यैकरूपत्वात् । न्यायवा० १.१.२१ । २४ नैष दोषः वुद्धिमत्त्वेन विशेषणात्-बुद्धिमत्तत्त्वमिति प्रतिपादितम् । बुद्धिमत्तया च
विशिष्यमाणं सापेक्षं च न सर्वदा प्रवर्त्तते, न सर्वमेकस्मिन् काले उत्पादयति यस्य कारणसान्निध्यं तद् भवति यदसन्निहितकारण तन्न भवति, न च सर्वस्य युगपत्कारणसान्निध्यमस्ति, अतः सर्वस्य · युगपदुत्पादो न प्रसक्तः, स खलु प्रवर्तमानो
धर्माधर्मयोः परिपाककालमपेक्षते । न्यायवा० ४.१.२१ । । २५ न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थाऽती
तानागतवर्तमानविषया प्रत्यक्षा, नानुमानिकी नागमिको, न तत्रानुमानं नागम इति । ज्ञाननित्यत्वाच्च न संस्कारः--नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति, संस्काराभावाद् बुद्धिनित्यत्वाच्च न स्मृतिः, स्मृत्यभावाच्च नानुमानम् । न दुःखमधर्मस्याभावात् । अत एव न वैराग्यमिति, दुःखाभावान्न विरज्यत इति । अत एव न द्वेषो दुःखाभावादिति । इच्छा तु विद्यतेऽक्लिष्टाऽव्याहता सर्वार्थेषु
यथा बुद्धिरिति । न्यायवा० ४.१.२१ । २१ अथ किमयं बद्धो मुक्त इति ? न बद्धो दुःखाभावादेव, अबद्धत्वान्न · मुक्त
इति-न्यवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । * न्यायवा० ४.१.२१ ।
MUHERITA