________________
વૈશેષિકદર્શન
१७
१७ सङ्ख्या-परिमाण-पृथक्त्व-संयोग-विभाग-बुद्धय एव तस्य गुणाः । न्यायवा०
१८ इच्छा तु विद्यतेऽक्लिष्टाऽव्याहता सर्वार्थेषु यथा बुद्धिरिति । न्यायवा०
४१२१ । १८ यदि पुनर्धर्माधर्माभ्यामेवाधिष्ठिताः परमाणवः प्रवर्तेरन् न युक्तमेतदचेतनत्वात् ,
न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माधर्मयोः परमाणुप्रवृत्तिपामर्थ्यम् , न, करणस्य केवलस्य क्रियानिवृत्तावसामर्थ्यात् . न हि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते, · तदपि न युक्तमदृष्टःश्वात्, न हि वर्मकरणाभ्यां क्रियां जन्यमानां क्वचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति, उक्तमेतदज्ञत्वादिति । अकारणोत्पत्तिर्भविष्यतीति, न युक्तमदृष्टत्वादिति । न चान्या गतिरस्ति । तस्माद् बुद्धिमत्कारणाधिष्ठिताः परमाणवः कर्माणि च प्रवर्तन्त इति । न्यायवा०
४.१.२१ । २० न कारणमीश्वरः विकल्पानुपपत्तेः-कर्ता चेदीश्वरः, किं सापेक्षः करोति उत
निरपेक्ष इति । किं चातः ? यदि सापेक्षः, येन करोति तस्याकर्ता, एवमन्यत्रापि प्रसङ्गः, तदपि साधनं येन करोति तस्याकर्तेति । अथायं किञ्चिदनपेक्ष्य करोति तद्वदन्यत्रापि प्रसङ्गः । अथायं सर्वमनपेक्ष्य करोति, एवमपि पुरुषकर्माफलं भवेत्
अनिर्मोक्षश्च प्रसज्येत । न्यायवा० ४.१.२१ । २१ निरपेक्षकर्तृत्वस्यानभ्युपगमात् धर्माधर्मविफलत्वादिदोषो नास्ति न चाकर्मनिमित्ते ... सर्गे दोष इति । येन करोति तस्याकर्तेति चेत्, नानेकान्तात् , नायमेकान्तोऽस्ति
यो येन करोति स तन्न करोतीति, यथाऽ कशिल्पपर्यवदातः पुरुषः करणान्तरोपादानो वास्यादि करोति, वास्याद्यपादानो दण्डादि करोति, तदुपादानो घटादि; न च पर्यायर्तृत्वे सति अकर्तृत्वम् , तथेवरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखादि, आत्ममनःसंयोगशुद्धाशुद्धाभिषन्धिसाधनश्च धर्माधमौं', सुखदुःखस्मृत्यपेक्षः तत्साधनाद्यपेक्षश्च शुद्धमशुद्धं चाभिसन्धिमिति । यदा करोति तदा साधनस्याकति
चेत् - अथ मन्यसे यदाऽयं साध्यं किञ्चिद् दृष्टं निवर्तयति तदा येन साधयति तस्याकर्ता प्रसज्यत इति ? नैतदेवम् न ब्रूमः सर्वाननयमेकस्मिन् काळे करोतीति, अपि तु पर्यायेण, पर्यायकर्तृत्वे चायमदोषः । यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् - अथ मन्यसे यदि शरीरादिकर्तृवं धर्माधर्मासपेक्षस्य, अब यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत् - अनादिः सार इति,