________________
વૈશેષિકદર્શન
૧૭૯
૪૩
न तात्त्विकः कालस्य मेदो वर्तमानादिः, किन्तु असन्नप्यसौ व्यवहारसिद्धये केन - चिदुपाधिमा कल्प्यते । कः पुनरसावुपाधि: ? क्रियेति ब्रूमः । न्यायमं०, भा० १, पृ० १२६ ।
४४ ननु युगपदादिप्रत्ययमेद एव तद्भेदप्रतिपादकः ? नैवम् । कालामेदेऽपि सहकारिभेदात् प्रत्ययभेदोपपत्तेः । कन्दली पृ० १५९ ।
४५ जन्यानां जनकः कालः ... । कारिकावलो ४५ ।
४६ कन्दली पृ० १५९ ।
४७ वर्त्तमानाभावः पततः पतितपतितव्यका लोपपत्तेः । न्यायसू० २.१.३९ । वृन्तास्प्रच्युतस्य फलस्य भूमौ प्रत्यासीदतो यदूर्ध्व स पतितोऽध्वा, तत्संयुक्तः कालः पतितकालः, योऽधस्तात् स पतितव्योऽध्वा, तत्संयुक्तः कालः पतितव्यकालः । नेदानीं तृतीयोऽध्वा विद्यते यत्र पततीति वर्त्तमानः कालो गृह्येत, तस्माद्वर्तनमाः कालो न विद्यत इति । न्यायभा० २ १ ३९ ।
४८ तयोरप्यभावो वर्तमानाभावे तदपेक्षत्वात् । न्यायसूत्र २९.४० । नाध्वव्यङ्गयः कालः । किं तर्हि ? क्रियाव्यङ्गयः पततीति । यदा पतनक्रिया व्युपरता भवति स कालः पतितकालः । यदोत्पत्स्यते स पतितव्यकालः । यदा द्रव्ये वर्त - माना क्रिया गृह्यते स वर्तमानः कालः । यदि चायं द्रव्ये वर्तमानं पतनं न गृह्णाति कस्योपरममुत्पत्स्यमानतां वा प्रतिपद्यते । पतितः काल इति भूता क्रिया । पतितव्यः काल इति चोत्पत्स्यमाना क्रिया । उभयोः कालयोः क्रियाहीनं द्रव्यम्, अथः पततीति क्रियासम्बद्धं, सोऽयं क्रियाद्रव्ययोः सम्बन्धं गृह्णातीति वर्तमानः कालस्तदाश्रयौ चेतरौ कालौ तदभावे न स्यातामिति । न्यायभा० २.१.४० ।
४७ नातीतानागतयोरितरेतरापेक्षासिद्धिः । न्यायसूत्र २.१.४१ ।
५० अर्थसद्भावव्यङ्गधंश्चायं वर्तमानः कालः, विद्यते द्रव्यं विद्यते गुणः विद्यते कर्मेति । न्यायभा २.१.४१ ।
2
. ५१ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः । न्यायसू० २.१.४२ । प्रत्यक्ष मिन्द्रियार्थसन्निकर्षजं न चाविद्यमानमसदिन्द्रियेण सन्निकृष्यते । न चायं विद्यमानं सत्किञ्चिदनुजानाति । प्रत्यक्षनिमित्तं प्रत्यक्षविषयः प्रत्यक्षज्ञानं सर्वं नोपपद्यते, प्रत्यक्षानुपपत्तौ तत्पूर्वकत्वादनुमानागमयोरनुपपत्तिः । सर्व प्रमाणविलोपे सर्वग्रहणं न भवतीति । न्यायभा० २. १.४२ ।
५२. इत इदमिति यतस्तद् दिश्यं लिङ्गम् । वै० सू० २.२.१० ।
43 तथाहि एकदेशमधिकृत्य कश्चिन्पूर्वः कश्चिदपर इति प्रतीत्या पूर्वापरयोर्वस्तुनोः