________________
१७८
3
ષદન
मसमायिकारणवत्' कार्यत्वाद् इति स्थिते च रूपादीनां च व्यभिचारे तपनपरिमन्दानां च वैयधिकरण्ये तदवच्छिन्नद्रव्य संयोगोऽसमवायिकारणमिति विज्ञायते । न चाविभुनो द्रव्यस्य संयोगस्तथा भवितुमर्हति व्यभिचाराद् इति तद्द्द्रव्यं विभु स्यात् । किरणावली पृ० ७६ ।
न चाकाशस्य स्वप्रत्यासत्तिमात्रेण संयुक्तसमवायिनं धर्ममन्यत्र सङ्क्रामयितुमसमर्थत्वात् । तथात्वे चैत्र मेर्यामभिहतायां सर्वमेरीषु शब्दोत्पत्तिप्रसङ्गात् सूर्यक्रियावद् भेरीसंयोगस्यापि संयुक्त संयुक्तसमवायाविशेषात्, कालस्य तु तत्स्वभावत्वाद् अयमदोषः । असिद्धिदशायां प्रसङ्गस्याश्रयासिद्धेः; सिद्धिदशायां च बाधितत्वादात्मनोऽपि द्रव्यान्तरधर्मेषु द्रव्यान्तरावच्छेदाय स्वप्रत्यासत्त्यतिरिक्तसन्निकर्षापेक्षत्वात् । अन्यथा वाराणसीस्थितेन नीलेन पाटलिपुत्रस्थितस्य स्फटिकमणेरूपरञ्जनप्रसङ्गात् । कालस्य तु विप्रकृष्टक्रियोपसङ्क्रमणशक्ततयैव सिद्धेर्नाऽयं प्रसङ्ग इति सर्वमवदातम् । किरणावली पृ० ७७।
अथ आदित्यपरिवर्तनमेवास्तु किं कालेनेति चेत् । न । युगपदादिप्रत्ययानुमेय - त्वात् । न चादित्यपरिवर्तनादेव युगपदादिप्रत्ययाः सम्भवन्तीति । व्योमवती पृ० ३४३ ।
३७
3८
न च क्रियैव काल इति वाच्यम् । युगपदादिप्रत्ययाभावप्रसङ्गात् । तथाहिक्रियायाः क्रियारूपतया विशेषाभ्युपगमादिति प्रत्ययाभावः परापरव्यतिकराभावश्च । न च क्रिया काल इति प्रतीयते । व्योमवती पृ० ३४३ ।
३८ आदित्यपरिवर्तनात्पीयस्त्व भूयस्त्वनिबन्धनो युवस्थविरयोः परापरव्यवहार इत्येके, तदयुक्तम्, आदित्यपरिवर्तनस्य युवस्थविरयोः सम्बन्धाभावादसम्बद्धस्य निमित्तत्वे चातिप्रसङ्गात् । कन्दलो पृ० १५६ ।
४० तेषां युगपदादिप्रत्ययानां विषयेषु द्रव्यादिषु पूर्वप्रत्ययविलक्षणानां द्रव्यादिप्रत्ययविलक्षणानामुत्पत्तावन्यस्य निमित्तस्याभावात् । एतदुक्तं भवति द्रव्यादिषु विषयेषु पूर्वादिप्रत्यया जायन्ते, न चैषां द्रव्यादयो निमित्तं तत्प्रत्यय विलक्षणत्वात्, न च निमित्तमन्तरेण कार्यस्योत्पत्तिरस्ति, तस्माद्यदत्र निमितं स काल इति । कन्दली पृ० १५६ |
४१ असति तस्मिन् वस्तुत्पादाभावात् । न तावदत्यन्तमतो गगनस्योत्पाद:, नाप्यत्यन्तासतो नरविषाणस्य, किन्तु प्रासगतः । कालासत्त्वे चाभाव विशेषणस्य प्राक्शब्दार्थस्याभावान्नायं विशेषः सिद्धयतीति न कस्यचिदुत्पत्तिः स्यात् । कन्दली पृ० १५७ ।
४२. युवस्थविरयो: शरीरावस्थाभेदेन तत्कारणतया कालसंयोगेऽनुमिते सति पश्चात्तयोः कालविशिष्टतावगतिः प्रश्येतुरेकत्वात् । कन्दली पृ० १५८ ।