________________
વશેષિકદર્શન
१७७
२४ गुणः शब्दः, गुणश्च गुणिना विना न भवति , न चेष पृथिव्यादीनां गुणः, ___ द्रव्यान्तरं च नास्ति, तस्माद्यस्यायं गुणस्तदाकाशमिति परिशेषादाकाशस्याधिगमे
प्रतिपत्तौ लिङ्गमित्यर्थनिर्देशः । कन्दलो पृ० १५० । २५ पदार्थधर्मसं० पृ० १४४ । २१ शब्दो लिङ्गमाकाशस्य शब्दश्च सर्वत्राविशिष्ट एक इत्येकरूपमेवाकाशं सिद्धयति,
मेदप्रतिपादकप्रमाणाभावादित्यर्थः । ननु शब्दोऽपि तारतरादिरूपेण विविध एव ? सत्यम्, न तु तेन रूपेणास्य लिङ्गता, किन्तु गुणत्वेन, तच्चाविशिष्टं नाश्रयमेदावगमाय प्रभवति, एकस्मादप्याश्रयात् कारणभेदेन तारतरा दमेदस्य शब्दस्यो
त्पत्त्यविरोधात् । कन्दली पृ० १५१ । । २७ विभुत्वं सर्वगतत्वं तदाकाशस्य कुतः सिद्धमिति चेत् ? सर्वत्र शब्दोत्पादात्, ___ यद्याकाशं व्यापकं न भवति, तदा सर्वत्र शब्दोत्पत्तिर्न स्यात् , समवायिकारणा.
भावे कार्योत्पत्त्यभावात् । कन्दली पृ० १५३ । २८ अन्यथा परमाणुत्वे प्रत्यक्षगुणाश्रयत्वविरोधात्, अवयवित्वे स्पर्शशून्यत्वविरोधात् ।
किरणावली पृ० ७४ । । २८ किरणावली पृ० ७५ । ३० अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः । न्यायसू० ४.२.२२ ।
संसर्पता प्रतिघातिना द्रव्येण म व्यूह्यते यथा काष्ठेनोदकम् । कस्मात् ? निरवयव- स्वात् । सर्पच्च प्रतिघाति न विष्ट नाति नास्य क्रियाहेतुं गुणं प्रतिबध्नाति,
कस्मात् ? अस्पर्शत्वात् , विपर्यये हि विष्टम्भो दृष्ट इति सावयवे स्पर्शवति द्रव्ये
दृष्टं धर्म विपरीते नाशङ्कितुमर्हति । न्यायभा० ४.२.२२ । ३१ उपस्कार, वै० सू० २.१.२०-२३ । ३२ नन्वाकाशस्य सद्भावे किं प्रमाणम् ? प्रत्यक्षमेव, वियति पति पतत्रिणि
चक्षुर्व्यापारेणेहायं पक्षी प्राप्तो नेहेति नियतदेशाधिकरणा प्रतीतिरिति चेत् , तदयुक्तम् , अरूपस्य द्रव्यस्य चाक्षुषत्वाभावात् । योऽप्ययमधिकरणप्रत्ययस्तत्र विततालो.
कमण्डलव्यतिरेकेण न द्रव्यान्तरं प्रतिभाति । कन्दली पृ० १४४ । 33 पदार्थधर्मसं० पृ. ५९ । ३४ अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि । वै० सू० २.२.६ । 3५ 'बहुतरतपनपरिस्पन्दान्तरितजन्मनि हि स्थविरे युवानवधिं कृत्वा परत्वमुत्पद्यमान५. १२