________________
વૈશેષિકદર્શન
૧૫૩
८ बीजावयवाः कुतश्चिन्निमित्तात् प्रादुर्भूतक्रियाः पूर्वव्यूहं जहति व्यूहान्तरं चापद्यन्ते व्यूहान्तरादङ्कुर उत्पद्यते । न्यायभा० ४.१.१८ ।
नहिं अनन्वयविनष्टयोः शालि-यवबीजयोः कश्चिद् विशेषोऽस्ति येन एकस्मात् शाल्यङ्कुरो नान्यस्मादिति । न्यायवा० त० टी० ४.१.१८ । ११ उत्तरोत्तर कार्यारम्भेऽपि पूर्वपूर्वकारणानपायाद् मूर्तानाम् एकदेशत्वं स्यात् । न्यायमं०, भा० २, पृ० ७३ ।
१२ बीजमङ्कुरस्योपादानं तत्सारभागविक्रियया अङकुरस्योत्पत्तेः । न्या०वा०ता०टी० ३.२.१४ ।
૧૩
यथा मृदवयवानां व्यूहान्तराद् द्रव्यान्तरे स्थाल्यामुत्पन्नायां पूर्वं मृत्पिण्डद्रव्यं मृदवयवविभागेभ्यो निवर्तत इति । न्यायभार ३.२.१६ ।
૧૪
न च मूर्तानां संमानदेशतादोषः यावत्सु तन्तुषु एकोऽवयवी वर्तते तावत्स्वेवान्यूनानतिरिक्तेषु परस्य समवायानभ्युपगमात्, द्वितन्तुकं द्वयोस्तन्त्वोः समवैति त्रितन्तुकं तु तयोस्तन्त्वन्तरे चैत्युत्तरोत्तरेषु कल्पनायां कुतः समानदेशत्वम् । कन्दली पृ० ३५३ ।
१५ न च पूर्वतन्तव एव तन्त्वन्तरसहकारात् पूर्वपटे सति एव पटान्तरमारभन्तामिति वाच्यम् । मूर्तयोः समानदेशताविरोधात्, तत्र पटद्वयासम्भवादेकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधितत्वाच्च । सिद्धान्तमुक्ता० ११३ ।
१६ न बीजनाशोऽङ्कुर कारणमपि तु व्याहतव्यूहानां बीजावयवानां पूर्वव्यूहनिवृत्तौ व्यूहान्तरमुत्पद्यत इति व्यूहान्तरादङ्कुर आविर्भवतीति... एवं च बीजोपादानं युक्तम् । न्यायवा० ४.१.१७ ।
१७ ननु यदि बीजावयवव्यूहान्तरमङ्करोत्पादहेतुर्न बीजं कस्माद् अङ्कुरार्थिनः कृषीवला बीजमुपाददते ? बीजावयवोपादाने अवर्जनीयतया बीजमागच्छदशक्य प्रत्याख्यानम् । न्या०वा० ता०टी० ४.११७ ।
१८ न कार्यपरमाणुका कारणपरमाणुरस्ति । न्यायवा० ४२.२५ |
१७ सावयवशब्दस्यार्थः समानजातीयावयवं न केवलं तदारब्धमपि तु तदाश्रितम् । न्या०वा०ता०टी० ४.२.२५ ।
२० कार्यानवरूद्ध एव द्रव्ये सर्वत्र रूपाद्युत्पत्तिदर्शनम् । कन्दली० पृ० २५९ । २१ न च पटादिनाशेऽपि तन्त्वन्तरसंयोगात् परिमाणाधिक्यं न स्यादिति वाच्यं तत्रापि वेमाद्यभिघातेनासमवायिकारणतन्तुसंयोगनाशात् पटनाशस्यावश्यकत्वात् । किंच तन्वन्तरस्य तत्पटावयवत्वे पूर्वं तत्पट एव न स्यात् तन्त्वन्तररूपकारणाभावात् । तन्त्वन्तरस्यावयवत्वाभावे च न तेन परिमाणाधिक्यं संयुक्तद्रव्यान्तरवत् तस्मात्तत्र तन्वन्तरसंयोगे सति पूर्वं पटनाशस्तत: पटान्तरो त्तिरित्यवश्यं स्वीकार्यम् ।
૧૦