________________
ષડ્સન
अवयविन: प्रत्यभिज्ञानं तु साजात्येन दीपकलिकादिवत् । न च पूर्वतन्तव एव तन्त्वन्तरसहकारात्पूर्वपटे सत्येव पटान्तरमारभन्तामिति वाच्यं मूर्तयोः समानदेशताविरोधात् तत्र पटद्वयासम्भवात् एकदा नानाद्रव्यस्य तत्रोपलम्भस्य बाधित - त्वाच्च । तस्मात्पूर्वस्य द्रव्यस्य प्रतिबन्धकस्य विनाशे द्रव्यान्तरोत्पत्तिरित्यस्यावश्यमभ्युपेयत्वात् । सिद्धान्तमुक्ता० ११२ ।
२२ यद् द्रव्यं यद्द्रव्यध्वंसजन्यं तत् तदुपादानोपादेयम् । सिद्धान्तमुक्ता० ३५ । २३ महापट नाशे अवस्थितसंयोगेभ्य एव खण्डपटोत्पत्तौ .... उपस्कार १.१.२२ । २४ उभयं चैतद् अवस्थितवस्तुविषयम् । न्याय०या० ३.२.१२ ।
२५ अवयवोपचयापचयौ न क्षणिकपक्षे युज्येते निरन्वयोत्पादविनाशयोरुपचयापचयप्रत्ययाभावात् । न्या०वा०ता०टी ३.२.१२ ।
૨૬
अपाकजरूपरसगन्ध.....स्नेहानां यावद्द्रव्यभावित्वम् । पदार्थधर्मसं० पृ० २४९ । २७ व्यक्तीनामव्यवधानोत्पादनं नान्तराग्रहणस्य आत्यन्तिक सादृश्यस्य च भ्रान्तिहेतोः सर्वदा सम्भवे ज्वाल दिव्यक्तिवत् । कन्दली पृ० ८६ ।
२८ कारणं त्रिविधम् - समवाय्यसमवायिनिमित्तभेदात् । तर्कसंग्रह |
૧૫૪
२५ यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा तन्तवः पटस्य, पटश्च स्वगतरूपादेः । तर्कसंग्रह |
३० कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति यत् कारणं तदसमवायिकारणम् । यथा तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य । तर्कसंग्रह |
31 तदुभयभिन्नं कारणं निमित्तकारणम् । तर्कसंग्रह |
३२
कारणस्य जातिनियमाभावे कार्यजातिनियमो हेत्वभावेन व्याहन्येत । न्यायकुमांजलि, बोधनो १.६ ।
33
कथं तर्हि तृणारणिमणिभ्यो भवन्नाशुशुक्षणिरेकजातीयः ? एकशक्तिमत्त्वादिति चेत्, न; यदि हि विजातीयेष्वप्येकजातीयकार्यकारणशक्तिः समवेयात्, न कार्यात् कारण - विशेषः क्वाप्यनुमीयेत....... । न्यायकुसुमांजलि १.६ ।
३४ फूत्कारेण तृणादेरेव, निर्मथनेनारणेरेव, प्रतिफलिततरणि किरणैर्मणेरेवेति प्रकारनिय - मवत्तेनैव व्यज्यमानस्य कार्यजातिभेदस्य भावात् । दृश्यते च पावकत्वाविशेषेऽपि प्रदीपः प्रासादोदरव्यापकमा लोकमारभते, न तथा ज्वालाजालजटिलोऽपि दारुदहनो, न तराञ्च कारीषः । न्यायकुसुमाञ्जलि १.६ ।
३५ अन्यथा सिद्धिशून्यस्य नियता पूर्ववर्तिता । कारणत्वम् ॥ कारिकावो का० १६ ।
३६ कारिकावली का० १९-२२ ।
.......