________________
૧૧૬
પટ્ટન
१७ सर्वावस्थोपलव्धिरपि कार्यस्य विनश्यतोऽपि क्रमेण विनाशात् । नहि घटः परमाणुसञ्चयारब्धो येन विभक्तेषु परमाणुषु सहसैव विनश्येत् किन्तु द्वयणुकादिप्रक्रमेणारब्धः । तस्य द्वयणुकञ्यणुकाद्यसङ्ख्येयद्रव्यविनाशात्परम्परया चिरेण विनश्यतो यावदविनाशस्तावदुपलब्धिरस्त्येव । एकतश्च पूर्वेऽवयवां विनश्यन्ति, अन्यतइचो - त्पन्नपाकमैरणुभिरपूर्वे तत्स्थाने एव द्वयणुकादिक्रमेणारभ्यन्ते, तेन पक्वापक्वाव यवदर्शनम् । यदा चान्यावयवानां नाशात्पूर्वावयविनो विनश्यता तदैवापूर्वावयवानामुत्पादात् क्षणान्तरे पूर्वावयविविनाशेऽवयव्यन्तरस्य चोत्पादः इत्याधाराधेयभावोSवधारणं च स्यात् । कन्दली पृ० २६४ ।
१८ प्रत्यभिज्ञानं च ज्वालादिवत् सामान्यविषयम् । कन्दली० पृ० २६४ | १८ यावन्तः पूर्वस्यावयवास्तावन्त एवोत्तरस्यारम्भकाः तत्परिमाणत्वं तत्सङ्ख्यान्वं चोपपद्यते । कन्दली पृ० २६५ ।
तथा हि परमाण्वपगमे द्वयणुकमवश्यं नश्यतीति; अन्यथा कार्यनित्यताप्रङ्गात् । तन्नाशे तु त्रसरेणवोऽवश्यं विनश्यन्ति । तन्नाशे तत्कार्यमीत्यनेनैव क्रमेणान्त्यावयविपर्यन्तः प्रलयः, अन्यथा निराश्रयकार्यावस्थानप्रसङ्गात् । किरणावली पृ० १२२ । २१ व्योमवती पृ० ४४८ ।
૨૨
न तावत्परमाणवः सान्तराः, निर्भागत्वात् । द्व्यणुकस्य सान्तरत्वे चानुत्पत्तिरेव, तस्य परमाण्वोरसंयोगात् । संयुक्तौ चेदिमौ निरन्तरावेव | सभागयोर्हि वस्तुनोः केनचिदंशेन संयोगात् केनचिदसंयोगात् सान्तरः संयोगः । निर्भागयोस्तु नायं विधिरवकल्पते । स्थूलद्रव्येषु प्रतीयमानेष्वन्तरं न प्रतिभात्येव, त्र्यणुकेष्वेवान्तरम्, तच्चानुपलब्धियोग्यत्वान्न प्रतीयत इति गुर्वीयं कल्पना । तस्मान्निरन्तरा एव घटादयः । कन्दली० पृ० २६२-२६३ ।
२०