________________
૧૧૫
વૈશેષિકદર્શન 3 स्वतन्त्रेषु परमाणुषु पाकजोत्पत्तौ कार्यानवरुद्ध एव द्रव्ये सर्वत्र रूपाद्युत्पत्तिदर्शनं
प्रमाणम् । परमाणुरूपादयः कार्यानवरूद्धेष्वेव द्रव्येषु भवन्ति, आरभ्यमाणरूपादित्वात् ,
तन्त्वादिरूपवत् । कन्दली पृ० २५९ । ४ घटरूपादय आश्रयविनाशादेव नश्यन्ति । कन्दली पृ. २६३ । ५ न चैतावन्तं कालमेकोऽग्निसंयोगोनुवर्तितुमीष्टे, तेजसोऽविलम्बेन गमनशीलत्वात् ।
किरणावली पृ० ११९ । ६ न च यदेव रूपादीनां विनाशकारणं तदेव तेषामुत्पत्तिकारणमित्यवगन्तव्यम्, तन्तु___रूपादीनामन्यत उत्पत्तेरन्यतश्च विनाशदर्शनात् । कन्दलो पृ० २५९ । ७ किरणावली पृ०.११९ । ८ पाकजोत्पत्त्यनन्तरं परमाणुषु क्रिया न तु श्यामादिनिवृत्तिसमकालमेवेति रूपादिमत्येव
द्रव्ये रूपादिमत्कार्यद्रव्यारम्भहेतुभूतक्रियादर्शनाद् दृश्यते । परमाणुक्रिया रूपादिमत्येव जायते रूपादिमत्कार्यारम्महेतुभूतक्रियात्वात् पटारम्भकसंयोगोत्पादकतन्तुक्रिया
वत् । कन्दली पृ० २६१ । ८ तथा ह्यापाकनिक्षिप्तेषु घटादिषु कुलारस्य छिद्रप्रदेशेन निरीक्षमाणस्याक्षजं विज्ञा
नम्-घटः पच्यत इति । ब्योम० पृ. ४४७ । १० तथा पाकोत्तरकालं स एवायं घट इत्यबाध्यमानस्य प्रत्यभिज्ञानस्योपलब्धेरवस्थानम् ।
व्योम० पृ० ४४७ । । ११ उपरिस्थापितानां च तृणकर्परादीनामपाताच्चावस्थायित्वम् । व्योम पृ० ४४७ । १२ परमाणूनां च धारणसामर्थ्याभावात् । व्योम० पृ. ४४७ ।। १३ तद्देशत्वतत्परिमाणत्वतत्संख्यात्वोपलब्धेश्च । यदि चोत्पन्नपाकजाः परमाणवो द्वयणुका
दिप्रक्रमेण घटादिकमारभेरन् तद्देशं तावत्परिमाणं तत्संख्या च न स्यान्नियमहेतो. रभावात् । दृष्टश्चायं नियमः तस्मिन्नेव देशे तावत्परिमाणं तत्संख्या च । एवं
घटादीनामवस्थायित्वम् । व्योम० पृ० ४४७ । १४ न च घटादेविनाशे कादिभिविना पुनरुत्पत्तिर्युक्ता । व्योम० पृ० ४४७ । १५ यदि चाणुप्रवेशाद्र्व्यस्य विनाशः, तर्हि बहिर्देशे शीतस्पर्शोपलम्भाऽन्यथानुपपत्त्यो
दकस्य निःसरणादाधारस्य विनाशे तत्पातः स्यात् । अथ सिद्धं द्रव्यमित्युदकस्य निःसरणम्, तर्हि तन्मार्गेणैव तेजोऽणुप्रवेशादन्तर्देशे पाकः सम्पद्यत इति किं
तद्वनाशेनेत्यलम् । व्योम० पृ० ४४८ । १९ आवरणाभ वश्च । तथाहि-वेगादग्निसम्बन्धादवयवक्रियाक्रमेण घटादेविनाशस्तथा
वेगवच्चक्षुःसम्बद्धात् काचाभ्रस्फटिकादेः क्रियाक्रमेण विनाशे तदव्यवहितेन सम्बद्धस्य चक्षुषः प्रकाशकत्वमित्यावरणाभावः स्यात् । व्योम पृ० ४४८ ।