________________
વિશેષિક દર્શન
૯૫
१६ सा च द्विविधा- नित्या चानित्या च । परमाणुलक्षणा नित्या, कार्यलक्षणा
त्वनित्या । प्रशस्तपादभाष्य पृ० ७८ । १७ त्रिविधं यस्याः कार्यम्-शरीरेन्द्रियविषयसंज्ञकम् । प्रशस्त० पृ० ८१ । १८ भोक्तुभॊगायतनम् शरीरम् । न्यायकन्दली पृ० ८२ ।। १८ शरीरं द्विविधं योनिजमयोनिजं च । तत्रायोनिजमनपेक्ष्य शुक्रशोणितं...अणुभ्यो
जायते ।....शुक्रशोणितसन्निपात योनिजम् । प्रशस्त० पृ०८२ । २० भयमभिसन्धिः-शरीराम्मे परमाणव एव कारणम् , न शुक्रशोणितसन्निपातः, क्रिया
विभागादिन्यायेन तयोविनाशे सति उत्पन्नपाकजैः परमाणुभिरारम्भात् । न च शुक्रशोणितपरमाणूनां कश्चिद्विशेषः पार्थिवत्वाविशेषात्...परमाणुभ्योऽयोनिजशरीरो
त्पत्तिर्नानुपपन्ना । न्यायकन्दली पृ० ८२ । २१ तद् द्विविधं जरायुजमण्डजं च । प्रशस्तपाद० पृ० ८२। २२ अयोनिजम्-स्वेदजोद्भिज्जादिकम् । स्वेदजाः कृमिदंशाद्याः । उद्भिज्जास्तरुगुल्माद्याः।
न्यायसिद्धान्तमुक्तामली का० ३८ । २३ तत्रायोनिज्मनपेक्ष्य शुक्रशोणितं देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते ।
प्रशस्तपाद० पृ० ८२। २४ नारकिणां शरीरमप्ययोनिजम् । न्यायसिद्धान्तमुक्तावली ३८ । २५ न च क्लेदोमादेपलम्भादाप्यत्वादिकमपि स्यादिति वाच्यम्, तथा सति जलत्व
पृथिवीत्वादिना सङ्करप्रसङ्गाद् ।...तेन पार्थिवादिशरीरे जलादीनां निमित्तमात्र बोध्यम् । न्यायसिद्धान्तमुक्तावली .का० ३८।। पितुः शुक्रं मातुः शोणितं तयोः सन्निपातानन्तरं जठरानलसम्बन्धाद् शुक्रशोणितारम्भकेषु परमाणुषु पूर्वरूपादिविनाशे सति समानगुणान्तरोत्पत्तौ द्वयणुकादिप्रक्रमेण कललशरीरोत्पत्तिस्तत्रान्तःकरणप्रवेशो न तु शुक्रशोणितावस्थायाम् , शरीराश्रयत्वान्मनसः । तत्र मातुराहाररसो मात्रया सङ्कामति । अदृष्टवशात् तत्र पुनजठरानलसम्बन्धात् कललारम्भकपरमाणुषु क्रियाविभागादिन्यायेन कललशरीरे नष्टे समुत्पन्नपाकजैः कललारम्भकपरमाणुभिरदृष्टवशादुपजातक्रियैराहारपरमाणुभिः सम्भूय शरी
रान्तरमारभ्यत इत्येषा कल्पना शरीरे प्रत्यहं द्रष्टव्या । न्यायकन्दली पृ० ८५ । २७ शरीराश्रयं ज्ञातुरपरोक्षप्रतीतिसाधनं द्रव्यमिन्द्रियम् । न्यायकन्दली पृ० ८२ । २८ अतीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्व... । व्योमवती पृ. २३२ । । २८ भ्यस्त्वाद् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने । वै० सू० ८.१६ । गन्धज्ञानं
घ्राणम्, तस्मिन्नारब्धव्ये पृथिवी कारणं भूयस्त्वात्, शरीरापेक्षया तु भूयस्त्वम् । भूयस्त्वं तु घ्राणे पृथिव्याः, पादादिना गन्धोपलब्ध्यभावात् । गन्धवत्त्वाच्च, यतश्च स्वसमवायिना गन्धेन घ्राणेन्द्रिय गन्धमभिव्यनक्त्यतस्तस्य गन्धवती पृथिव्येव