________________
५५शन..
जलादिकम् । तत्प्रत्यक्षे चाऽऽलोकनिरपेक्षं चक्षुः कारणमिति चेत् ? न । आवश्यकतेजोऽभावेनैवोपपत्तौ द्रव्यान्तरकल्पनाया अन्याय्यत्वात् । रूपवत्ताप्रतोतिस्तु भ्रमरूपा, कर्मवत्ताप्रतीतिरप्यालोकापसरणौपाधिकी भ्रान्तिरेव । तमसोऽतिरिक्तद्रव्यत्वेऽनन्तावयवादिकल्पनागौरवं च स्यात् । न्यायसिद्धान्तमुक्तावली,
का०३। २ व्यवस्थितः पृथिव्यां गन्धः । वै० सू० २.१.२। 3 शुक्लपीताद्यनेकविधं रूपं क्षितावेव नान्यत्र । न्यायकन्दली पृ० ७५ । ४ एकस्यां पृथिवीत्वजातौ नानारूपाणि व्यक्तिभेदेन समवयन्ति । क्वचिदेकस्यामपि
व्यक्तावनेकप्रकाररूपसमावेशः, यत्र नानाविधरूपसम्बन्धिभिरवयवैरवयव्यारभ्यते ।
न्यायकन्दली पृ०७५। ५ रसः षडविधः इत्यत्रापि पूर्ववद् व्याख्यानम् । न्यायकन्दली पृ० ७७ । १ सुगन्धि सलिलम्, सुगन्धिः समीरण इति प्रत्ययाद् द्रव्यान्तरेऽपि गन्धोऽस्तीति
चेन्न, पार्थिवद्रव्यसमवायेन तद्गुणोपलब्धेः । न्यायकन्दली पृ० ७४ । ७ ननु तथाप्यव्यापको गन्धः क्षितेः, वक्ष्यमाणेषु मणिवज्रादिष्वनुपलब्धेः; तत्कथं
तद्व्यवस्थाहेतुः ! न, पाकेन पूर्वनिवृत्तौ रूपान्तरोत्पत्तौ च पाकजरूपस्यैव गन्ध
सहचरिततया तत्रापि तदनुमानात् । किरणावली पृ० ३२ । ८ यत्तु प्रस्तरभस्मनो गन्धवत्त्वेन तत्परमाणोर्गन्धवत्तया तदारभ्यस्य प्रस्तरस्यापि ____ गन्धवत्त्वम् । ...मनुद्भवादेव तत्र गन्धानुपलम्भः। सेतु० पृ० २०४-२०५ ।
८ गन्धो द्विविध: सुरभिरसुरभिश्च । प्रशस्तपादभाष्य पृ० ७३ । १० गन्धरसौ तु चित्रौ नाङ्गीक्रियते, प्रयोजनाभावात् । एष च मार्गो निसर्गतो दुर्गम
इति न पुरातनैरभ्यासित इत्यर्वाचीनैरपि सावधान चेतःसञ्चार इहाचरणीय इति
संक्षेपः । सेतु० पृ० १८४। ११ स्पर्शोऽस्या अनुष्णशीतत्वे सति पाकजः । प्रशस्तपादभा० पृ० ७३ । १२ यद्यपि नभस्वतोऽनुष्णशीतस्पर्श उक्तस्तथापि न पाकजः। किरणावली पृ० ३४ । १३ पतनोपदेशाद् गुरुत्वम् । प्रशस्तपादभा० पृ० ७२ । मे। वै० सू०
५.१.७ । १४ 'सर्जितुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रव्यत्वमद्भिः सामान्यम्' (वै० स०
२.१.७) इति वचनात् पृथिव्यां नैमित्तिकं द्रवत्वमस्तीत्युक्तम् । न्यायकन्दली
पृ० ७३ । १५ उत्तरकर्मवचनात् (वै० सू० ५. १. १७) संस्कार इति । प्रशस्तपादभाष्य
पृ० ७३ ।