________________
સાંખ્યદર્શન
૫૫
५3 तत्र धर्मिणो धमैः परिणामः, धर्माणां त्र्यध्वनां लक्षणैः परिणामः, लक्षणानामऽप्यवस्थाभिः
परिणाम इति । ...एतेन भूतेन्द्रियादिषु धर्मधर्भिभेदात् त्रिविधः परिणामो वेदितव्य,
परमार्थतस्तु एक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा • प्रपञ्च्यत इति । ...धर्मिणोऽपि धर्मान्तरमवस्था धर्मस्यापि लक्षणान्तरमवस्थेत्येक एव
द्रव्यपरिणामो भेदेनोपदर्शित इति । योगभा० ३.१३ । ૫૪ નામ=સંજ્ઞા, રૂપ આકાર ५५ क्रमान्यत्वं परिणामान्यत्वे हेतुः । योगसूत्र ३.१५ । ५६ ...तद्यथा - चूर्णमृत, पिण्डमृत, घटमृत्, कपालमृत्, कणमृत् इति च क्रमः । यो यस्य
धर्मस्य समनन्तरो धर्मः स तस्य क्रमः । पिण्डः प्रच्यवते घट उपजायत इति
धर्मपरिणामक्रमः । योगभा० ३.१५ । ५७ घटस्यानागतभावाद् वर्तमानभावक्रमः, तथा पिण्डस्य वर्तमानभावाद् अतीतभावक्रमः । __ योगभा० ३.१५ । ५८ नातीतस्यास्ति क्रमः । कस्मात् ? पूर्वपरतायां सत्यां समनन्तरत्वम्, सा तु नास्त्यतीतस्य, ... तम्माद् द्वयोरेव लक्षणयोरेव क्रमः । योगभा० ३.१५ । ५८ तथाऽवस्थापरिणामक्रमोऽपि । घटस्याभिनवस्य प्रान्ते पुराणता दृश्यते । सा च
क्षणपरम्परानुपातिना क्रमेणाभिव्यज्यमाना परां व्यक्तिमापद्यत इति । योगभा० ३.१५ । १० गुणास्तु सर्वधर्मानुपातिनो न प्रत्यस्तमयन्ते नोपजायन्ते । व्यक्तिभिरेवातीतानागतव्ययाग
मवतीभिर्गुणान्वयिनीभिरुपजननापायधर्मका इव प्रत्यवभासन्ते । योगभा० २.१९ । * ११ निमित्तममप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवद् । योगसूत्र ४.३ ।
न हि धर्मादि निमित्तं प्रयोजकं प्रकृतीनां भवति, न कार्येण कारणं प्रवर्त्यत इति । कथं तर्हि ? 'वरणभेदस्तु क्षेत्रिकवत्' । यथा क्षेत्रिकः केदाराद् अपां पूर्णात् केदारान्तरं विप्लावयिषुः समं निमं निम्रतरं वा नापः पाणिनाऽपकर्षत्यावरणं त्वासां भिनत्ति, तस्मिन् भिन्ने स्वयमेवापः केदारान्तरमाप्लावयन्ति तथा धर्मः प्रकृतीनामावरणमधर्म भिनत्ति, तस्मिन् भिन्ने प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । योगभा० ८.३ । सर्वेषां निमित्तकारणानां स्वतन्त्रतायाः प्रकृतेः परिणामेषु प्रतिप्रतिबन्धनिवर्तकमात्रावगमात् । योगवा० ३.१४ । ९२ देशकालाकारनिमित्तोपबन्धात्... । योगभा० ३.१४ । तेषां सत्त्वेऽपि पञ्चालादिषु न
समुदाचार इति न कुकुमस्य पञ्चालादिष्वभिव्यक्तिः, एवं निदाघे न प्रावृषः समुदाचार इति न तदा शालीनाम्, एवं न मृगी मनुष्यं प्रसूते न तस्यां मनुष्याकारसमुदाचार इति, एवं नापुण्यवान् सुखरूपं भुङ्क्ते तस्मिन् न पुण्यनिमित्तस्य समुदाचार इति । तत्त्ववै० ३.१४ ।