SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ૫૪ ષદર્શન ४२ सव्यापाग उदिताः । व्यासभा० ३.१४ । ४३ तत्र शान्ता ये कृत्वा व्यापारनुपरताः । व्यासभा० ३.१४ । ४४ ते (उदिताः) चानागतस्य लक्षणस्य समनन्तराः । वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति वर्तमानाः ? पूर्वपश्चिमताया अभावात् । यथाऽनागतवर्तमानयोः पूर्वपश्चिमता नैवमतीतस्य । तस्मान्नातीतस्यास्ति समनन्तरः । तदनागत एव समनन्तरो भवति वर्तमानस्येति । व्यासभा० ३.१४ । ४५ सामान्यरूपेण स्थिता अतीतानागता धर्माः विशेषरूपेणाभिव्यक्ता वर्तमानधर्माः । भास्वती ३.१४ । ४९ य एतेष्वभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । व्यासभा० ३.१४ . । ४७ व्यासभा० ३.१३ । ४८ योगसूत्र ३.१३ । ४८ अवस्थितस्य धर्मिणः पूर्वधर्मतिरोभावे धर्मान्तरप्रादुर्भावस्यैव धर्मपरिणामत्वमिति भावः । यौगवा० ३.१३ । ५० लक्ष्यतेऽनेन लक्षणं कालभेदः । तेन हि लक्षितं वस्तु वस्त्वन्तरेभ्यः कालान्तरयुक्तेभ्यः व्यवच्छिद्यत इति । तत्त्ववै० ३.१३ । लक्षणपरिणामश्च निरोधः त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानं लक्षणं प्रतिपन्नो यत्रास्य स्वरूपेणाभिव्यक्तिः, एषोऽस्य द्वितीयोऽध्वा, न चातीतानागताभ्यां वियुक्तः, तथा... त्रिभिरध्वभिर्युक्तं वर्तमानं लक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपत्रमेषोऽस्य तृतीयोऽध्वा, न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम् । योगभाष्य ३.१३ । लक्षणापरिणामो धर्मोऽध्वसु वर्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतवर्तमानाभ्यां लक्षणाभ्यामवियुक्तः, तथाऽनागतोऽनागतलक्षणयुक्तो वर्तमानातीताभ्यां लक्षणाभ्यामवियुक्तः, तथा वर्तमानो वर्तमानलक्षणयुक्तोऽतीतानागताभ्यां लक्षणाभ्यामवियुक्त इति । योगभा० ३.१३ । - ५१ योगभा० ३.१३ । ५२ धर्माणां वर्तमानाध्वनां बलवत्त्वाबलवत्त्वे अवस्था, तस्याः प्रतिक्षणं तारतम्यम् अवस्थापरिणामः । तत्त्ववै० ३.१३. । लक्षणस्यैव नवपुराणतादिनाऽवस्थापरिणाम इति । योगवा० ३.१३ । त्रशेय परिशाभोने समभवतुं दृष्टान्त तत्रेदमुदाहरणम् - मृद् धर्मी पिण्डाकाराद् धर्माद् धर्मान्तरमुपसंपद्यमानो धर्मतः परिणमते घटाकार इति । घटाकारोऽनागतं लक्षणं हित्वा वर्तमानलक्षणं प्रतिपद्यत इति लक्षणतः परिणामतो घटों नवपुराणतां प्रतिक्षणमनुभवन् अवस्थापरिणामं प्रतिपद्यत इति । व्यासभा० ३.१३ ।
SR No.005833
Book TitleShaddarshan Part 01 Sankhya Yog
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1973
Total Pages324
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy