________________
સાંખ્યદર્શન
૫૩
सङ्कोचविकाशिभ्यो न भिन्न एवं घटमुकुटादयोऽपि मृत्सुवर्णादिभ्यो न भिन्नाः । सां० त० कौ० ९ ।
२८ एवं च 'इह तन्तुषु पटः' इति व्यपदेशोऽपि यथा 'इह वने तिलका:' इत्युपपत्रः । सां० त० कौ० ९ ।
३० नाप्यर्थक्रियाव्यवस्था वस्तुभेदे हेतु:, तेषामेव समस्तव्यस्तानामर्थक्रियाव्यवस्थादर्शनात्, यथा प्रत्येकं विष्टयो वर्त्मदर्शनलक्षाणामर्थक्रियां कुर्वन्ति न तु शिबिकांवहनम्, मिलितास्तु शिबिकां वहन्ति, एवं तन्तवः प्रत्येकं प्रावरणमकुर्वाणा अपि मिलिता आविर्भूतपट भावाः प्रावरिष्यन्ति । सां० त० कौ० ९ ।
३१ स्यादेतत् - आविर्भावः पटस्य कारणव्यापारात् प्राक् सन्नसन् वा ? असं श्चेत्, प्राप्तं तर्ह्यसदुत्पादनम् । अथ सन् कृतं तर्हि कारणव्यापारेण, न हि सति कार्ये कारणव्यापार प्रयोजनं पश्यामः, आविर्भावे चाविर्भावान्तरकल्पने ऽनवस्थाप्रसङ्गः, तस्मादाविर्भूतपटभावास्तन्तवः क्रियन्त इति रिक्तं वचः । सां० त० कौ० ९ । ३२ अथासदुत्पाद्यत ं इत्यत्रापि मते केयमसदुत्पत्तिः - सती ? असती वा ? सती चेत्, कृतं तर्हि कारणैः । असती चेत्, तस्या अप्युत्पत्यन्तरमित्यनवस्था । सां० त० कौ० ९ । 33 अथोत्पत्तिः पटान्नार्थान्तरम् अपि तु पट एवासौ । तथापि यावदुक्तं भवति पट इति तावदुक्तं भवति उत्पद्यते इति ततश्च पट इत्युक्ते उत्पद्यते इति न वाच्यम्, पौनरुक्त्यात् । · विनश्यति इत्यपि न वाच्यम्, उत्पत्ति - विनाशयोर्युगपदेकत्र विरोधात् । सां० त० कौ० ९ ।
३४ तस्मादियं पटोत्पत्तिः स्वकारणसमवायो वा स्वसत्तासमवायो वा, उभयथापि नोत्पद्यते, अथ च तदर्थानि कारणानि व्यापार्यन्ते, एवं सत एव पटादेराविर्भावाय कारणापेक्षेत्युपपन्नम् । सां० त० कौ० ९ ।
34 चलं च गुणवृत्तम् । व्यासभा० ३.१३ ।
३९ सर्वमिदं गुणानां सन्निवेशविशेषमात्रमिति परमार्थतो गुणात्मानः । व्यासभा० ४.१३ ।
३७ व्यासभा० ३.१४ ।
३८ धर्मिणो द्रव्यस्य मृदादे: शक्तिरेव चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मः तेषां तत्राव्यक्तत्वेन भाव इति यावत् । तत्त्ववै० ३.१४ ।
३८ याऽसौ घटादीनामुत्पत्तिशक्तिः सोदकाहरणादियोग्याताऽवच्छिन्ना, तेनोदकाहरणादयोऽपि घटादिभिः स्वकारणादेव प्राप्ता इति नाकस्मिका इति भावः । तत्त्ववै० ३.१४ । ४० दग्धशक्तेरपि संग्रहाय योग्यतावच्छिन्नेत्युक्तम् ...तथा चाग्नेर्दाहशक्तिवद् धर्मा अपि धर्मिणि यावद्धर्मभाविनः । न हि शक्तिवियोगः शक्तिमतोऽस्ति शक्ति - शक्तिमतोरभेदादिति भावः । योगवा० ३.१४ ।
४१ तत्र त्रयः खलु धर्मिणो धर्माः- शान्ता उदिता अव्यपदेश्याश्चेति । व्यासभा० ३.१४ ।