SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ષદર્શન १३ सा शक्तिः शक्तकारणाश्रया सर्वत्र वा स्यात् शक्य एव वा ? सर्वत्र चेत्, तदवस्थैवाव्यवस्था । शक्ये चेत्, कथमसति शक्ये तत्र इति वक्तव्यम् । सां० त० कौ० ९ ।. १४ शक्ता अपि हेतवः कार्यं कुर्वाणाः शक्यक्रिमेव कुर्वन्ति, नाशक्यम् । तत्त्वसं० पं० पृ० १९ । ૫૨ १५ असत्कार्यकारित्वाभ्युपगमादेवाशक्यक्रियं कुर्वन्तीत्युक्तं भवति । तथाहि - यदसत् तत्रीरूपं निःस्वभावम् यच्च नीरूपं तच्छशविषाणादिवदकार्यातिशयम् अनाधेयातिशयम् यच्चानाधेयातिशयं तदाकाशवदविकारि । तत्तथाभूतमसमासादितविशेषरूपं कथं केन - चिच्छक्यते कर्तुम् ? तत्त्वसं० पं० पृ० २० । १६ सां० का० ९ । १७ कार्यस्य कारणात्मकत्वात् न हि कारणाद् भिन्नं कार्यम्, कारणं च सद् इति कथं तदभिन्नं कार्यमसद् भवेत् । सां० त० कौ० ९ । १८ न पटस्तन्तुभ्यो भिद्यते तद्धर्मत्वात् । इह यद् यतो भिद्यते तत् तस्य धर्मो न भवति, यथा गौरश्वस्य । धर्मश्च पटस्तन्तूनाम् । तस्मात्रार्थान्तरम् । सां० त० कौ० ९ । १८ उपादानोपादेयभावाच्च नार्थान्तरत्वं तन्तुपटयोः । सां० त० कौ० ९ । २० इतश्च नार्थान्तरत्वं तन्तुपटयोः संयोगप्राप्त्यभावात् । सां० त०' को० ९ । २१. इतश्च पटस्तन्तुभ्यो न भिद्यते गुरुवान्तरकार्याग्रहणात् । सां० त० कौ० ९ । २२ यदि तन्त्वादिभ्यो द्रव्यान्तरभूतस्यावयविनो निष्पत्तिः स्यात् तेन यथा तन्तुकलापे पटस्तत्रैव वा पटान्तरमाहितं भेदेनोपलभ्यते तथैवोपलभ्येत । न तूपलभ्यते । युक्तिदी० ९ । २३ समवायादग्रहणमिति चेत् स्यादेतत् संयोगिनोर्द्रव्ययोः सत्याधाराधेयभावे भेदेन ग्रहणं भवति । युक्तिदी० ९ । २४ वेमादिवत् इति चेत् स्यात् यथा सत्यर्थान्तरभावे वेमादयोऽवयविनः कारणमेवं तन्तवोऽपि । एतदनुपपन्नम् । कस्मात् ? अनभ्युपगमात् । करणं वेभादयः पटस्य, न कारणमित्ययमभ्युपगमो नः । युक्तिदी० ९ । २५ स्पर्शक्रियामूर्तिगुरुत्वान्तरवतस्तद्वति प्रतिघातादिति । यक्तिदी० ९ । २६ इतश्च नावयवी द्रव्यान्तरम्, कृत्स्नैकदेशवृत्त्यनुपपत्तेः । युक्तिदी० ९ । २७ स्वात्मनि क्रियानिरोधबुद्विव्यपदेशार्थक्रियाव्यवस्थाभेदाश्च नैकान्तिकं भेदं साधयितुमर्हन्ति, एकस्मिन्नपि तत्तद्विशेषाविर्भावतिरोभावाभ्यामेतेषामविरोधात् । सां० त० कौ० ९ । २८ यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरोभवन्ति, निस्सरन्ति चाविर्भवन्ति न तु कूर्मतस्तदङ्गान्युत्पद्यन्ते प्रध्वंसन्ते वा, एवमेकस्य मृदः सुवर्णस्य वा घटमुकुटादयो विशेषा निस्सरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते निविशमानाश्च तिरोभवन्तो विनश्यन्तीत्युच्यन्ते, न पुनरसतामुत्पादः सतां वा निरोधः । ..... यथा कूर्मः स्वावयवेभ्यः
SR No.005833
Book TitleShaddarshan Part 01 Sankhya Yog
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1973
Total Pages324
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy