________________
યોગદર્શન
२०४ १४ बुद्धेश्चिच्छायापत्तिश्चाहमित्यादिरूपैश्चितेः भानार्थमेवेष्यते, बुद्ध्यारोहं विना साक्षात् ___स्वभाने कर्मकर्तृविरोधात् । योगवार्तिक १.६ । १५ द्रष्टुदृश्योपरक्तं चित्तं सर्वार्थम् । योगसूत्र ४. २३ ।। १६ तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पम्, । योगसूत्र ४. ३१ । १७ आवरकेण तमसाऽभिभूतमावृतज्ञानसत्त्वं क्वचिदेव रजसा प्रवर्तितमुद्घाटितं
ग्रहणसमर्थ भवति । योगभाष्य ४. ३१ । १८ सर्वैः क्लेशकर्मावरणैर्विमुक्तस्य ज्ञानस्यानन्त्यं भवति । योगभाष्य ४. ३१ । १८ चित्तमयस्कान्तमणिकल्पं सन्निधिमात्रोपकारि दृश्यत्वेन स्वं भवति पुरुषस्य
स्वामिनः । योगभाष्य १. ४ । यथाऽयस्कान्तमणिः स्वस्मिन्नेवायःसन्निधिकरणमात्रात् शल्यनिष्कर्षणाख्यमुपकारं कुर्वन् स्वामिनः स्वं भवति भोगसाधनत्वात् तथैव चित्तमप्ययःसदृशविषयजातस्य स्वस्मिन् सन्निधिकरणमात्राद् दृश्यत्वरूपमुपकारं
कुर्वन् पुरुषस्य स्वामिनः स्वं भवति । योगवार्तिक १. ४ । २० तावेतौ भोगापवर्गी बुद्धिकृतौ बुद्धावेव वर्तमानौ कथं पुरुषे व्यपदिश्यते इति ?
यथा विजयः पराजयो वा योद्धृषु वर्तमानः स्वामिनि व्यपदिश्यते स हि तस्य फलस्य भोक्तेति, एवं बन्धमोक्षौ बुद्धावेव वर्तमानौ पुरुष व्यपदिश्यते स हि
तत्फलस्य भोक्तेति । योगभाष्य २. १८ । २१ चितस्य द्वये धर्माः-परिदृष्टाश्चापरिदृष्टाश्च । तत्र प्रत्यात्मकाः परिदृष्टाः ।
वस्तुमात्रात्मका अपरिदृष्टाः, ते च सप्तैव भवन्ति; अनुमानेन प्रापितवस्तुसद्भावाः - निरोध-धर्म-संस्काराः परिणामोऽथ जीवनम् । चेष्टा शक्तिश्च चित्तस्य धर्मा
दर्शनवर्जिताः ॥ इति ॥ योगभाष्य ३. १५ ॥ २२ बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । योगसूत्र ३.३८ ।