________________
२०८
પદર્શન પાદટીપ
• १ चित्तं प्रख्याप्रवृत्तिस्थितिशीलत्वात् त्रिगुणम् । योगभाष्य १. २ ।
२ चित्तस्य सत्त्वप्राधान्यप्रतिपादनाय पुनरुक्तं प्रख्यारूपमिति । योगवार्तिक १. २ । न 3 चित्तशब्देनान्तःकरणं बुद्धिमुपलक्षयति । तत्त्वचैशारदो १. १ । ४ प्रख्याप्रवृत्तिस्थितिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्रीभूत्वा शान्तं घोरं मूढं वा प्रत्ययं
त्रिगुणमेवारभन्ते । योगभाष्य २. १५ । ५ घटप्रासादप्रदीपकल्पं सोचविकासि चित्तं शरीरपरिमाणाकारमात्रंमित्यपरे प्रतिपन्नाः । __ योगभाष्य ४. १० । F वृत्तिरेवास्य विभुनः सोचविकासिनीत्याचार्यः । योगभाष्य ४. १० । . ७ तदुपरागापेक्षित्वाच्चित्तस्य वस्तु ज्ञाताज्ञातम् । योगसूत्र ४. १७ । वस्तुतो ज्ञाता
ज्ञातस्वरूपत्वात् परिणामि चित्तम् । योगभाष्य ४. १७ । सा चार्थाकारता बुद्धौ परिणामरूपा स्वप्नादौ विषयाभावेन तत्प्रतिबिम्बासम्भवात् । योगवार्तिक १. ४। ८ यस्य तु प्रत्यर्थनियतं प्रत्ययमानं क्षणिकं च चित्तं तस्य सर्वमेव चित्तमेकाग्रम, नास्त्येव विक्षिप्तम् ।... योऽपि सदृशप्रत्ययप्रवाहेन चित्तमेकाग्रं मन्यते तस्यैकाग्रता यदि प्रवाहचित्तस्य धर्मस्तदैकं नास्ति प्रवाहचित्तं क्षणिकत्वात् । अथ प्रवाहांशस्यैव प्रत्ययस्य धर्मः स सर्वः सदशप्रत्ययप्रवाही वा विसदृशप्रवाही वा प्रत्यर्थनियतत्वादेकाग्र एवेति विक्षिप्तचित्तानुपपत्तिः । तस्मादेकमनेकार्थमवस्थितं चित्तमिति । यदि च चित्तेनैकेनानन्विताः स्वभावभिन्नाः प्रत्यया जायेरन् अथ कथमन्यप्रत्ययदृष्टस्यान्यः स्मर्ता भवेत् अन्यप्रत्ययोपचितस्य च कर्माशयस्यान्यः प्रत्यय उपभोक्ता भवेत् । योगभाष्य १. ३२ । ५ एकसमये चोभयानवधारणम् । योगसूत्र ४. २० ।। १० न तत् स्वामासं दृश्यत्वात् । योगसूत्र ४. १९ । ११ स्वबुद्धिप्रचारप्रतिसंवेदनात् सत्त्वानां प्रवृत्तिदृश्यते- 'क्रुद्धोऽहं भीतोऽहममुत्र मे ___रागोऽमुत्र मे क्रोधः' इति, एतत् स्वबुद्धेरग्रहणे न युक्तमिति । योगभाष्य ४. १९। १२ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसकरश्च । योगसूत्र ४. २१ । १३ चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् । योगसूत्र ४. २२ । न हि
पुरुषगतो. बोधो जन्यतेऽपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम् । तत्त्ववैशारदी १.६ । अयं घट इत्याकारा बिम्बरूपा वृत्तिः, तस्या एव वृत्ते चैतन्ये प्रतिबिम्बनात् चैतन्यमपि 'अयं घटः' इत्याकारमिव सद्बोधाख्यं फलं भवतीति । योगवार्तिक १.६ । वृत्तिसारूप्यमितरत्र । योगसूत्र
१.४
।