________________
સાંખ્યદર્શન
૧૪૫ २१ किं तर्हि तदाहरणधारणप्रकाशकम् ? तत्राहरणं कर्मेन्द्रियाणि कुर्वन्ति,
विषयार्जनसमर्थत्वात् । धारणं बुद्धीन्द्रियाणि कुर्वन्ति विषयसन्निधाने सति श्रोत्रादिवृत्तेस्तदूपापत्तेः । प्रकाशमन्तःकरणं करोति निश्चयसामर्थ्यात् । युक्तिदी०
३२। २२ तेन किं सिद्धं भवति ? यदुक्तमन्यैराचार्यैः सामान्यज्ञानमिन्द्रियाणां विशेषज्ञानं
बुद्धेरिति तत् प्रतिषिद्धं भवेत् । युक्तिदी० २८ । २३ आह-कः पुनरस्मिन् दर्शने दोषो यत एतत् प्रतिषिध्यत इति ? उच्यते
सामान्यविशेषयोरितरेतरापेक्षत्वे सत्येकस्मिन्नविरोधादन्यतरपरिकल्पनाऽऽनर्थक्यम् । यदि खल्विन्द्रियस्य सामान्यज्ञानं न स्यात् तेन विशेषापेक्षं सामान्यं सामान्यापेक्षश्च विशेष इति यत्र सामान्यज्ञानं तत्र विशेषज्ञानमपि न प्रतिषिध्यत इत्युभयमपीन्द्रियस्य स्यात् । ततश्चान्तःकरणपरिकल्पनाऽऽनर्थक्यम् । विशेषवतो वाऽन्तःकरणस्य कः सामान्येन विरोध इत्युभयस्यापि तत्र संभवाद् इन्द्रियानर्थक्यम् । तस्मादप्रत्ययमिन्द्रियमिति । इन्द्रियस्य चेत् प्रत्ययः स्याद् यथा प्रत्ययवतोऽन्तःकरणस्यानियतविषयत्वम्, एवमस्यापि स्यात्, न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियमिति । किञ्च कालातिवृत्तिप्रसङ्गात् । इन्द्रियस्य चेत् प्रत्ययः स्याद् यथा प्रत्ययवतोऽन्तःकरणस्य त्रिकालविषयत्वमेवमस्यापि स्यात् । न तु तदस्ति । तस्मादप्रत्ययमिन्द्रियमिति । किञ्चान्यत् स्मृत्यदर्शनात् । इन्द्रियस्य चेत् प्रत्ययः स्याद् यथा प्रत्ययवतोऽन्तःकरणस्यादिरूपोपपत्तिरेवमत्रापि स्यात् । न तु
तदस्ति । तस्मादप्रत्ययमिन्द्रयं सिद्धमिति । युक्तिदी० २८ । २४ भवतु तावदप्रत्ययमिन्द्रियम् । तत् तु ग्रहणरूपं न तु प्रकाशकं प्रदीपवदित्यत्र को
हेतुरिति ? उच्यते-न, करणान्तरप्रसङ्गात् । यदि प्रदीपवदिन्द्रियं प्रकाशकं स्यात् तेन यथा तत्प्रकाशितेषु घटादिष्वर्थेषु करणान्तरमार्गणमेवमत्रापि स्यात् । न
चैतदिष्टम् । अतो न प्रदीपवदिन्द्रियं प्रकाशकमिति । अन्तःकरणसद्धावादयुक्तमिति चेत् स्यान्मतम्-अस्ति करणान्तरं बुद्धिलक्षणं यदिन्द्रियेण प्रदीपवत् प्रकाशितम) गृह्णाति । तस्मात् परवादानुवादोऽयं क्रियते, न प्रतिषेध इति । तच्च नैवम् ।।
कस्मात् । प्रदीपेन्द्रिययोरन्यतरानुपादानप्रसङ्गात् । इन्द्रियमपि प्रकाशकम्, प्रदीपोऽपि . '। तत्रान्यतरस्यानुपादानं प्रसक्तम् । कस्मात् ? न ह्येकार्थकारिणो युगपत्करणे
सामर्थ्यमस्तीति । किञ्च अन्यत् । अन्तःकरणहानेः । इन्द्रियेण प्रदीपवत् प्रकाशितान् बाह्यानर्थान् साक्षादन्तःकरणं गृहणातीति वदतोऽतःकरणमेव हीयते । तस्मादयुक्तमन्तःकरणस्य ग्रहणसामर्थ्यम् । पुरुषस्येति चेन्न करणानर्थक्यप्रसङ्गात् । साक्षाद् विषयग्रहणसमर्थं पुरुषमिच्छतः करणानर्थक्यं प्रसज्यते । तस्माद् युक्तमेतत्
ग्राहकमिन्द्रियं न तु प्रदीपवत् प्रकाशकमिति । युक्तिदी० २८ । २५ आह, भवतु तावद् ग्रहणमात्रमिन्द्रियवृत्तिरप्रत्यया । ग्रहण-प्रत्यय-प्रकाशानामिदानी ... को भेदः ? उच्यते-विषयसम्पर्कात् तादूप्यापत्तिरिन्द्रियवृत्तिर्ग्रहणम् । तथा