________________
યગ્દર્શન
विषयेन्द्रियवृत्त्यनुकारेण निश्वयः 'गौरयंशुक्लो धावति' इत्येवमादिः प्रत्ययः । तथा विषयसम्पर्कापगमे श्रोत्रादिवृत्तेः तादूप्यापगमो वर्तमानकालता । ग्रहणस्यानुभवात् तु संस्काराधानं तत्पूर्विका च स्मृतिरिति त्रिकालविषया (यता) प्रत्ययस्येत्ययमनयोर्विशेषः । बाह्यस्तु प्रकाशो न विषयरूपापन्नः । संस्कारात् तु घटादीनां व्यवधानरूपं पार्थिवं छायालक्षणं धर्ममपहृत्य व्यञ्जकत्वाय कल्पते चक्षुषोऽनुग्रहाय । उभयोर्वा चक्षुर्विषययोरित्यपरे । तस्मादुपपन्नमेतत् प्रकाशकं प्रदीपादि, ग्राहकं श्रोत्रादि, व्यवसायात्मकमन्तःकरणमिति । युक्तिदी० २८ ।
२६ सा० का० २८ ।
૧૪૬
२७ उभयात्मकमत्र मनः । सां० का० २७ ।
२८ उभयात्मकं... चक्षुरादीनां वागादीनां च मनोऽधिष्ठितानामेव स्वस्वविषयेषु प्रवृत्तेः । सां० त० कौ० २७ । मनोऽपि चक्षुरादिसङ्गाद् चक्षुराद्येकीभावेन दर्शनादिवृत्तिविशिष्टतया नाना भवति । तत्र हेतुर्गुणेत्यादि । गुणानां सत्त्वादीनां परिणामभेदेषु सामर्थ्यादित्यर्थः । एतच्च 'अन्यत्रमना अभूवं नाश्रौषम्' इत्यादि श्रुतिसिद्धाद्
चक्षुरादीनां मनःसंयोगं विना व्यापाराक्षमत्वादनुमीयते । सां० प्र० भा० २.२७ । २८ सङ्कल्पेन रूपेण मनो लक्ष्यते ... ' इदमेवं नैवम्' इति सम्यक् कल्पयति विशेषणविशेष्यभावेन विवेचयतीति यावत् । सां० त० कौ० २७ ।
30 तथा च वुद्धिवृत्तेरध्यवसायोऽभिमानोऽहङ्कारस्य सङ्कल्पविकल्पौ मनस इत्यायातम् । सङ्कल्पश्चिकीर्षा, 'सङ्कल्पः कर्म मानसम्' इत्यनुशासनात् । विकल्पश्च संशयो योगोक्तभ्रमविशेषो वा, न तु विशिष्टज्ञानम् तस्य बुद्धिवृत्तित्वादिति । सां० प्र० भा० २.३० ।
31 गुणपरिणामविशेषाद् नानात्वं बाह्यभेदाश्च । सां० का० २७ ।
३२ न निर्भागत्वं तद्योगाद् घटवत् । सां० सू० ५.७१ । मनसो न निरवयवत्वम् अनेकेन्द्रियेष्वेकदा योगात्, किन्तु घटवद् मध्यमपरिमाणं सावयवमित्यर्थः । सां०
प्र० भा० ।
૩૩ બધા જ સાંખ્યાચાર્યો ઇન્દ્રિયને મધ્યમપરિમાણ માનતા ન હતા. કેટલાક તેને વિભુ માનનાર પણ હતા.
३४ न व्यापकत्वं मनसः करणत्वादिन्द्रियत्वाद्वा । सां० सू० ५.६९ । भनने દેહવ્યાપી માનનારના મત સાથે ચિત્તને દેહવ્યાપી માનનારના યોગભાષ્ય નિર્દિષ્ટ (૪.૧૦) મતને સરખાવો. ત્યાં ભિક્ષુ સ્પષ્ટપણે જણાવે છે કે ચિત્તને દેહવ્યાપી માનનાર સાંખ્યો છે, જ્યારે ચિત્તની વૃત્તિને દેહવ્યાપી માનનાર पतंभ छे.
३५ सक्रियत्वाद् गतिश्रुतेः । सां० सू० ५.७० ।
35 यच्च 'शिरसि मे वेदना, पादे मे सुखम् ' ज्ञानं मनसो विभुत्वं प्रतिपादयति तदाशुसञ्चारित्वात् क्रमाग्रहणनिमित्तम् । नानेन विभुत्वसिद्धिः [ किन्तु