________________
सू० १-१-२
४८
(श० न्या० ) नैवम् -नयादेशे हि वस्तुनो धर्म्मभेदाद् विशेषो न प्रमाणादेश इति । तथाहिभावार्थ-व्यवहारवत्तया द्विविधमपि जीवादितत्त्वं सकलरूपमेव, विकलरूपस्य तत्त्वैकदेशत्वात्। भावार्थो हि सद्द्रव्यं विधिः, व्यवहारोऽसदद्रव्यं गुणः, पय (?) (द्रव्य) प्रतिषेधः । तत्र यदा सद्द्रव्यं जीवो धर्म्मास्तिकायोऽधर्म्मास्तिकाय आकाशं कालो मनुष्यादिरिति वा विधिलक्षणभावार्थप्ररूपर्णायां शब्दः प्रयुज्यते, तदा काला - ऽऽत्मरूप - संसर्ग-गुणिदेशा -ऽर्थसम्बन्धोपकारशब्दैरभेदेनाभेदात्मकस्य वस्तुनोऽभिधानात्, सकलादेशस्य प्रमाणाधीनस्य प्रयोगात् सकलरूपमेव तत्त्वमभिधीयते, सदिति शब्दो हि सकलमसद्विशेषात्मकं च तत्त्वं प्रतिपादयति, तथा द्रव्यमिति शब्दो निःशेषद्रव्यविशेषात्मकमद्रव्यगुणाद्यात्मकं च प्रकाशयति, तथैव जीवशब्दो जीवतत्त्वं सकलजीवविशेषात्मकं जीवपर्यायरूपाजीवविशेषात्मकं च कथयति, तथैव धर्म इत्यधर्म इत्याकाश इति काल इति शब्दो धर्ममधर्ममाकाशं कालं च सकलस्वविशेषात्मकं निवेदयति, विधिरूपस्य भावार्थस्य प्राधान्यात् । यदा पुनरसदिति शब्दः प्रयुज्यते, तदाप्यसत्तत्त्वं परद्रव्य-क्षेत्र-काल-भावरूपचतुष्टयापेक्षकालादिभिरभेदोपचारेण सकलासद्विशेषात्मकं तत्त्वं ख्यापयति, व्यवहारस्य भेदप्राधान्यात्, तथैवाद्रव्यमजीव इत्यादिप्रतिषेधशब्दः सकलस्वविशेषात्मकमद्रव्यतत्त्वमजीवादितत्त्वं च प्रतिपादयति, स्यादिति निपातेन तस्य तथैवोद्द्योतनाद्, एवकारेणान्यथाभावनिराकरणाच्च, वस्तुतत्त्वमिति शब्दस्तु स्यात्कारलाञ्छनसैवकारः सकलवस्तुविशेषसदसदादिरूपं तत्त्वं कालादिभिरभेदेनाभेदोपचारेण वा प्रख्यापयति, तस्य भावार्थव्यवहारवत्त्वाद् विधिनिषेधप्राधान्येन युगपदभिधानात् । यत्कालं वस्तुनो वस्तुत्वं तत्काल एव सकलवस्तुविशेषाः; तस्य तद्व्यापकत्वादिति कालेनाभेदस्तेभ्यः । द्रव्यार्थप्राधान्याद् यथा च वस्तुनो वस्तुत्वमात्मरूपम्, तथा सर्वे वस्तुविशेषाः, इत्यात्मरूपेणाभेदः । यथा वस्तुत्वेन वस्तुनः संसर्गस्तथा वस्तुविशेषैरपि, सविशेषस्यैव तस्य सम्यक्सृष्टौ व्यापारात्, ततः संसर्गेणाऽप्यभेदः । यश्च वस्तुत्वस्य गुणस्य वस्तुगुणिदेशः, स एव वस्तुविशेषाणामिति गुणिदेशेनापि न भेदः । य एव चार्थो वस्तुत्वस्याधिकरणलक्षणो वस्त्वात्मा, स एव सकलवस्तुधर्म्माणामित्यर्थतोऽपि तदभेदः । यश्च वस्तुनि वस्तुत्वस्य सम्बन्धः समवायोऽविष्वग्भावलक्षणः स एव सकलधर्म्माणामिति सम्बन्धेनापि तदभेदः । य एव चोपकारो वस्तुनो वस्तुत्वेन क्रियतेऽर्थक्रियासामर्थ्यलक्षण:, स एव सकलधर्मैरपीत्युपकारे णापि तदभेदः । यथा च वस्तुशब्दो वस्तुत्वं प्रतिपादयति, तथा सकलवस्तुधर्म्मानपि, तैर्विना तस्य वस्तुत्वानुपपत्तेरिति शब्देनापि तदभेदः । पर्यायार्थिक
"
१. ०णायाः' अ । २. 'द्रव्यात्म० ' अ ।