________________
૦ ૧-૧-૧૦
૧૭૯
(श०न्यां० ) व्यज्यते प्रकाशवान् क्रियतेऽर्थोऽनेनेति "करणाधारे" [५.३.१२९.] इत्यनटि व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा-सूपादीन्योदनस्येति व्यञ्जनसादृश्यादन्वर्थं चेदं नामेति ॥ १० ॥
અનુવાદ :- ‘જેનાવડે અર્થ પ્રકાશવાળો કરાય છે' એ પ્રમાણે કરણ અર્થમાં ‘વિ’ ઉપસર્ગપૂર્વક 'अज्' धातुने 'अनट्' प्रत्यय लागवाथी 'व्यञ्जनम्' शब्द जने छे. स्वरोनां अर्थने प्राशित ऽरवामां 'व्यञ्जन' अत्यंत उपडारी छे. प्रेम हे लातनां रसने प्रगट उरवामां द्वाण वगेरे उपहार છે. જે પ્રમાણે સૂપ વગેરેને વ્યંજન પણ કહી શકાય છે. આથી વ્યંજનનાં સાદેશ્યથી આ વ્યંજન સંજ્ઞા અન્વર્થસંજ્ઞાવાળી થાય છે.
-: न्याससारसमुद्धार :
कादिरित्यादि -आदीयते गृह्यतेऽस्मादर्थ इत्यादिः । स च सामीप्य - व्यवस्था-प्रकाराऽवयवादिवृत्तिः । यथा- ग्रामादौ घोष इति सामीप्ये, ब्राह्मणादयो वर्णा इति व्यवस्थायाम्, आढ्या देवदत्तादय इति प्रकारे, देवदत्तसदृशा इत्यर्थः स्तम्भादयो गृहा इति अवयवे, स्तम्भावयवा इत्यर्थः । तत्र सामीप्यार्थवृत्तिग्रहणे ककारस्य व्यञ्जनसंज्ञा न स्यात्, उपलक्षणस्य कार्येऽनुपयोगात्, यथा-चित्रगुरानीयतामित्युक्ते चित्रगवोपलक्षितः पुमानेवाऽऽनीयते न तु चित्रा गौरिति । व्यवस्थार्थोऽपि न घटते, वर्णसमाम्नायस्य व्यवस्थितत्वेन व्यभिचाराभावात्, *संभवे व्यभिचारे च विशेषणमर्थवद्* इति हि न्यायः । कादीनां परस्परमत्यन्तवैसदृश्यात् प्रकारार्थोऽपि न समीचीनतामञ्चति । अवयवार्थवृत्तिस्तु संगच्छते । ककार आदिरवयवो यस्य वर्णसमुदायस्य स कादिः, अत एंवेह तद्गुणसंविज्ञानो बहुव्रीहिः समुदायस्यावयवेषु समवेतत्वात्, न्यग्भूतावयवत्वेन च समुदायप्राधान्यादेकवचनम् । संज्ञिसामानाधिकरण्येऽपि ' स्मृतयः प्रमाणम्' इतिवदाविष्टलिङ्गत्वाद् व्यञ्जनमिति नपुंसकत्वम् । व्यज्यते प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्, स्वराणामर्थप्रकाशने उपकारकम्, यथा-सूपादीन्योदनस्येति ।
"
-: न्याससारसमुद्धारनो अनुवाद :
ઉપરની પંક્તિઓનો અનુવાદ શબ્દમહાર્ણવન્યાસનાં અનુવાદમાં આવી ગયેલ છે. તેથી અહીં પુનરુક્તિ કરી નથી.
(न्या०स० ) कस्य आदिः कादिरिति व्याख्याने व्यवस्थावाच्यप्यादिशब्दः, तेन स्वराणां न व्यञ्जनसंज्ञा, अनुस्वारविसर्गयोस्तु भवति । ततोऽनुस्वारस्य व्यञ्जनसंज्ञायां संस्कर्तेत्यत्रानुस्वाररूप