________________
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસન ભાગ-૧
भवच्छासनादन्ये । सातिशयो मत्सरोऽसहनताऽस्त्येषामतिशायने मत्वर्थीये मत्सरिणः । प्रकर्षेणोद्यते प्रतिपाद्यते स्वाभ्युपगतोऽर्थो यैरिति "व्यञ्जनाद् घञ्” [५.३.१३२. ] इति घञ प्रवादाः प्रवचनानि । यथा परस्परविरोधात् परे प्रवादा मत्सरिणः, न तथा त्वत्समय इति । अत्र विशेषणद्वारेण हेतुमाह - पक्षपातीति यतो रागनिमित्तवस्तुस्वीकाररूपं पक्षं पातयति नाशयतीत्येवंशीलः, रागस्य जीवनाशं नष्टत्वात् । अत्रैव हेतुमाह-नयानशेषानविशेषमिच्छन्नितिनयान् नैगमादीन् समस्तानविशेषमभेदं यथा भवत्येवमङ्गीकुर्वन् । अयं भावः - नयानां समत्वेन दर्शनाद् रागमयस्य पक्षस्य पातितत्वात् समयस्य मत्सराभावः परेषां तु विपर्ययात् तत्सद्भाव इति । सम्यगेति गच्छति शब्दोऽर्थमनेनेति "पुन्नाम्नि०" [५.३.१३०.] इति घे समयः संकेत: । यद्वा, सम्यगयन्ति गच्छन्ति जीवादयः पदार्थाः स्वस्मिन् रूपे प्रतिष्ठां प्राप्नुवन्त्यस्मिन्निति समय आगमः । मत्सरित्वस्य विधेयत्वात् तेनैव नञः संबन्धात् पक्षपातिशंब्देन त्वसंबन्धात् प्रक्रमभेदाभावः ।
,
૮૨
परोक्तेनापि द्रढयति - नया इत्यादि - नीयन्ते प्राप्यन्ते जीवादयोऽर्था एकदेशविशिष्टा एभिरिति नया:, निरवधारणा अभिप्रायविशेषाः, सावधारणस्य दुर्नयत्वात्, समस्तार्थप्राप्तेस्तु प्रमाणाधीनत्वात्, ते च नैगमादयः सप्त, तव स्यात्पदेन चिह्निता अभिप्रेतं फलन्ति-लिहाद्यच् [“लिहादिभ्यः" ५.१.५०.] [निष्पादयन्ति ] अभिप्रेतं फलं येभ्य इति बहुव्रीहिर्वा । प्रणता इतिप्रणन्तुमारब्धवन्तः । हितैषिण इति विशेषणद्वारेण हेतु:, हितैषित्वादित्यर्थः । ‘आराद् दूरान्तिकयोः' सम्यग्ज्ञानाद्यात्मकमोक्षमार्गस्याऽऽरात् समीपं याताः प्राप्ताः, दूरं वा पापक्रियाभ्यो याता (गता) इत्यार्याः । नन्वस्तु युक्तियुक्तः स्याद्वादस्तदधीनत्वाच्छब्दसिद्धेः, तथापि अनभिहिताभिधेयप्रयोजनत्वात् कथमिदं प्रेक्षावत्प्रवृत्तिविषय इत्याशङ्कयाऽऽह - अथवेति-विविक्तानामसाधुत्वविमुक्तानां शब्दानां प्रयुक्तेः सम्यग्ज्ञानरूपा सिद्धिः । साधुशब्दाश्चात्राऽभिधेयाः । यमर्थमधिकृत्य प्रवर्त्तते तत् प्रयोजनमिति सम्यग्ज्ञानमनन्तरं प्रयोजनम्, तद्द्वारेण तु निःश्रेयसं परमिति 1
અનુવાદ :- ઉપરોક્ત તમામ પંક્તિઓનો અનુવાદ બૃહન્યાસમાં આવી ગયો છે. આથી પુનરુક્તિ દોષ ટાળવા માટે અમે અહીં અનુવાદ જણાવ્યો નથી.
( न्या०स० ) यतः
१. 'परं परमिति' इ-उ ।